SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावती धत्ते संततिरुन्नतिं भगवतो वीरप्रभोगौरिव ॥ ३ ॥ श्री सुस्थितः प्रतिबुद्ध एतौ सूरी अभूतां तदनुक्रमेण । याभ्यां गणोऽभूदिह कोटिकाहचंद्रार्यमभ्यामिव सुप्रकाशः ॥ ४ ॥ तत्राभूदजिणां वंद्यः श्रीवज्रर्षिगणाधिपः । मूलं श्रीवज्रशाखाया गंगाया हिमवानिव ॥ ५ ॥ तत्पट्टांबरदिनमणिरुदितः श्रीचज्रसेन गुरुरासीत् । नागेंद्र - चंद्र- निर्वृति-विद्याधर- संज्ञकाच तच्छिष्याः॥६॥ स्वस्वनामसमानानि येभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु कुलं चान्द्रं तु दिद्युते ॥ ७ ॥ भास्करा इव तिमिरं हतः ख्यातिभाजनम् । भूरयः सूरयस्तत्र जज्ञिरे जगतां मताः ॥ ८ ॥ बभूवुः क्रमतस्तत्र श्रीजगचंद्रसूरयः । यैस्तपाविरुदं लेभे वाणसिद्धचर्क १२८५ वत्सरे ॥ ९ ॥ क्रमेणास्मिन् गणे हेमविमलाः सूरयोऽभवन् । तत्पट्टे सूरयो भूवन्नानंविमलाभिधाः ॥ १० ॥ साध्वाचारविधिः पथः शिथिलतः सम्यकत्रियां धाम यै १२ रुद्द स्तनसिद्धिसायकसुधारोचिनिभे १५८२ नेहसि । जीमूतैरिव यैर्जगत्पुनरिदं तापं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमैः रसोल्लासिभिः ॥११॥ पद्माश्रयैरलमलंक्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन । Jain Education International ८४ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy