SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे श्रीभीषजीकस्वकुलोदयाद्रि सूर्यप्रभा कामलदेविपुत्रः ॥ २१॥ श्रीतीर्थयात्राजिनविम्बपूजा पदप्रतिष्ठादिककर्मधुर्याः। सुपात्रदानेन पवित्रमात्राः सर्वदृशाः सत्पुरुषाः प्रसिद्धाः ॥ २२ ॥ श्रीरत्नसिंह राज्ये राज्यव्यापारभारधौरेयः। श्रीकमसिंहदक्षो मुख्यो व्यवहारिणां मध्ये ॥ २३ ॥ श्रीशत्रुञ्जयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ । तस्योद्धारकृते भावः कर्मराजस्य तदाऽभूत् ॥ २४ ॥ आगत्य गौर्जरे देशे विवेकेन नरायणे । वसन्ति विबुधालोकाः पुण्यश्लोका इवाद्भुताः ॥ २५ ॥ तत्रास्ति श्रीधराधीशः श्रीमद् बाहदो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाययौ ।। २६ ॥ राज्यव्यापारधौरेयः पानश्रीमान् मझादकः । तस्य गेहे महामंत्री रवाख्यो नरसिंहकः ॥ २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुञ्जये गिरौ ॥ २८ ॥ श्रीपादलिप्तललनासरशुद्धदेशे सद्वाद्यमंगलमनोहरगीतनादैः। श्रीकर्मराजसुधिया जलयात्रिकायां चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥ चंचच्चंगमृदंगरंगरचनाभेरीनफेरीरवावीणा [वंश] विशुद्धनालविभवा साधर्मि वात्सल्य कम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy