________________
સ્થવિરાવલી.
थेरस्स महुमित्तस्य सेहेहिं तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहिं ववगयरागाइदोसे हिं ॥१॥ बंभद्दीवियसाहामउडे हिं गंधहत्थिविबुहेहिं । विवरणमेयं रइयं दोसयवासेसु विक्कमओ ॥२॥
आर्यस्कान्दिलाचार्यसम्बन्धश्चैवम्-उत्तरमथुरायां मेघरथामिधः परमः श्रमणोपासको जिनाज्ञाप्रतिपालको द्विजोऽभवत् । तस्य रुपसेनाऽभिधा सुशीला भार्याऽऽसीत् । तयोः सोमरथाभिधः सोमस्वप्नसूचितः सुतो बभूव । अथैकदा ते ब्रह्मद्वीपिकशाखोपलक्षिताः सिंहाचार्या विहारं कुर्वन्तः क्रमेणोत्तरमथुरोद्याने समागताः । तेषां धर्मदेशनां निशम्य प्राप्तवैराग्येण सोमरथेन चारित्रं गृहीतम् । इतोऽतीवभयंकरो द्वादशाब्दिको दुष्कालो भरतार्द्ध संजातः अतोऽर्हन्मार्गानुसारिणः केचन भिक्षवो भिक्षामलममाना गृहीतानशना वैभार-कुमारगिर्यादिषु संलेखनया स्वर्जग्मुः । पूर्वसंकलितान्येकादशांगानि जिनप्रवचनाधारभूतानि नष्टप्रायाणि संजातानि । दुर्भिक्षान्ते च विक्रमार्कस्यैकशताधिकत्रिपंचाशत्संवत्सरे स्थविरैरार्यस्कंदिलाचार्यैरुत्तरमथुरायां जैनभिक्षूणां संघो मेलितः एकशताधिकपंचविंशतिजैनभिक्षवः स्थविरकल्पानुयायिनो मधुमित्र-गन्धहस्त्यादयः संमिलिताः । सर्वेषां सावशेषमुखपाठान् मेलयित्वाऽऽर्यस्कंदिलैगंधहस्त्याद्यनुमतैरेकादशांगी पुनर्ग्रथिता । स्वल्पमतिभिक्षूणामुपकारार्थं चाऽऽर्यस्कंदिलस्थविरोत्तंसैः प्रेरिता गंधहस्तिन एकादशांगानां विवरणानि भद्रबाहुस्वामिविहितनिर्युक्त्यनुसारेण चक्रुः । ततः प्रभृति च प्रवचनमेतत् सकलमपि माथुरीवाचनया भारते प्रसिद्धं बभूव । मथुरानिवासिना श्रमणोपासकवरेणोशवंशविभूषणेन पोलाकाभिधेन तत् सकलमपि प्रवचनं गन्धहस्तिकृतविवरणोपेतं तालपत्रादिषु लेखयित्वा भिक्षुभ्यः स्वाध्यायार्थं समर्पितम् । एवं श्रीजिनप्रवचनप्रभावनां विधायाऽऽर्यस्कंदिलस्थविरा द्वयधिकद्विशतवैक्रमीय संवत्सरे मथुरायामेव कृताशनाः स्वर्गं प्राप्ताः । इतिश्रीस्कन्दिलाचार्यसम्बन्धः सम्पूर्णः ॥ ॥ इति श्रीस्कन्दिलाचार्यशिष्यलेशश्रीहिमवदाचार्यनिर्मिता
स्थविरावलिका समाप्ता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org