SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १० સ્થવિરાવલી नाणम्मि दंसणम्मि अ, तव-विणए निच्चकालमुजुतं । अजं नंदिलखमणं, सिरसा वंदे पसन्नमणं ॥५।। वडउ वायगवंसो जसवंसो अजनागहत्थीणं । वागरण-करण-भंगिअ-कम्मप्पयडीपहाणाणं जच्चंजणधाउसमप्पहाण मुद्दिअकुवलयनिहाणं । वड्डउ वायगवंसो रेवइनक्खत्तनामाणं ॥७॥ अयलपुरा णिक्खंते कालिअसुअ-आणुओगिए धीरे । बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते ॥८॥ जेसि इमो अणुओगो पयरइ महुराओ(अजावि) अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ॥९॥ आर्यमहागिरीणां जिनकल्पितुलनां कुर्वतां बहुलाख्यो विनेयवरो जिनकल्पितुलनामकरोत् । बलिस्सहश्च पश्चात् स्थविकल्पमभजत् । बलिस्सहशिष्याः स्वात्याचार्याः श्रुतसागरपारगास्तत्त्वार्थसूत्राख्यं शास्त्रं विहितवन्तः । तेषां शिष्यैरार्यश्यामैः प्रज्ञापना प्ररूपिता । श्यामार्यशिष्याः स्थविराः शाण्डिल्याचार्याः श्रुतसागरपारगा अभवन् । तेषां शाण्डिल्याचार्याणां आर्यजीतधरा-ऽऽर्यसमुद्राख्यौ द्वौ शिष्यावभूताम् । आर्यसमुद्रस्याऽऽर्यमङ्गुनामानः प्रभावकाः शिष्या जाताः । आर्यमंगूनां चाऽऽर्यनंदिलाख्याः शिष्या बभूवुः । आर्यनंदिलानां चाऽऽर्यनागहस्तिनः शिष्या बभूवुः । आर्यनागहस्तिनां चाऽऽयरेवतीनक्षत्राख्याः शिष्या अभवन् । आर्यरेवतीनक्षत्राणां आर्यसिंहाख्याः शिष्या अभवन् । ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभवन् । तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽर्यस्कंदिलाचार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीवविद्वांसः प्रभावकाश्चाभवन् । तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम्, एकादशांगोपरि चाऽऽर्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि । यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005025
Book TitleSthaviravali ane Teni Aaspas
Original Sutra AuthorN/A
AuthorGunsundarvijay
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy