________________
૨૪૦
ढाण-६ : था-१६ દ્રવ્ય ગુણ પર્યાયનો રાસ संग्रहो द्विविधः । सामान्यसंग्रहो यथा सर्वाणि द्रव्याणि परस्परमविरोधीनि । विशेषसंग्रहो यथा-सर्वे जीवाः परस्परमविरोधिनः । इति संग्रहोऽपि द्वधा । व्यवहारोऽपि द्वधा । सामान्यसंग्रहभेदकव्यवहारो यथा- द्रव्याणि जीवाजीवाः । विशेषसंग्रहभेदकव्यवहारो यथा -जीवाः संसारिणो मुक्ताश्च । इति व्यवहारोऽपि द्वधा ।
ऋजुसूत्रो द्विविधः । सूक्ष्मर्जुसूत्रो यथा - एकसमयावस्थायी पर्यायः । स्थूलर्जुसूत्रो यथा-मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति । इति ऋजुसूत्रोऽपि द्वेधा । शब्दसमभिरूद्वैवम्भूताः प्रत्येकमैकैके नयाः। शब्दनयो यथा-दारा भार्या कलत्रम्, जलमापः । समभिरूढनयो यथा-गौः पशुः। एवम्भूतो नयो यथा-इन्दतीति इन्द्रः । उक्ता अष्टाविंशतिर्नयभेदाः ।
છઠ્ઠી ઢાળ પૂરી.
अनेकान्तवादो विजयतेतराम् विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ८ ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ।। ९ ।। इच्छन्प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ।। १० ।।।
__वीतरागस्तोत्रेऽष्टमप्रकाशे । श्रीहेमाचार्याः ॥ સમૂહાલંબનાત્મક વિજ્ઞાનનો અનેક આકારથી સંવલિત એક આકાર માનતો પ્રાજ્ઞ બૌદ્ધ, ચિત્રરૂપને એક અને અનેકરૂપ તરીકે પ્રામાણિક કહેતો યોગ (નૈયાયિક) અને વૈશેષિક, પરસ્પર વિરુદ્ધ એવા સત્ત્વ, રજસ્ અને તમ. એ ત્રણ ગુણોથી ગૂંથાયેલા પ્રધાન તત્ત્વને એક માનનારો સાંખ્ય અનેકાન્તવાદને નિષેધી શકે નહીં. सांख्यः प्रधानमुपयंस्त्रिगुणं विचित्रां, बौद्धो धियं विशदयन्नथ गौतमीयः।। वैशेषिकश्च भुविचित्रमनेकमेकं वाञ्छन् मतं न तव निन्दति चेत् सलजः॥४४॥
श्रीमहावीरस्तवे महोपाध्यायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org