________________
દ્રવ્ય ગુણ પર્યાયનો રાસ ઢાળ-૬ : ગાથા-૬
૨૨૩ सत्ता अमुक्खरूवे, उप्पायवयं हि गिण्हए जो हु । सो हु सहावाणिच्चो, गाही खलु सुद्धपज्जाओ ।। २०१ ।। जो गहइ एयसमये, उप्पादव्वयधुवत्तसंजुत्तं । सो सब्भावाणिच्चो, असुद्ध पजयत्थिओ णेओ ।। २०२ ।। देहीणं पज्जाया सुद्धा, सिद्धाण भणइ सारिच्छा । जो सो अणिच्चसुद्धो, पज्जयगाही हवे स णओ ।। २०३ ।। भण्णइ अणिच्चासुद्धा, चउगइजीवाण पज्जया जो हु । होइ विभावअणिच्चो असुद्धओ पज्जयत्थि णओ ।। २०४ ।।
તથા દિગંબરાસ્નાયમાં દેવસેન “આચાર્યકૃત આલાપ પદ્ધતિમાં પણ દ્રવ્યાર્થિકનયના ૧૦ અને પર્યાયાર્થિકનયના છ ભેદ જણાવેલા છે. તે પાઠ આ પ્રમાણે છે -
नयभेदा उच्यन्ते - णिच्छयववहारणया, मुलिमभेया णयाण सव्वाणं । णिच्छयसाहणहेऊ, दव्वपज्जत्थिया मुणह ।। ३ ।।
द्रव्यार्थिकः, पर्यायार्थिकः, नैगमः, संग्रहः, व्यवहारः ऋजुसूत्रः, शब्दः, समभिरूढ : एवम्भूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपा उपनयाः । सद्भूतव्यवहारः, असद्भूतव्यवहारः, उपचरितासद्भूतव्यवहारश्चेत्युपनयास्त्रेधा ।
इदानीमेतेषां भेदा उच्यन्ते । द्रव्यार्थिकस्य दश भेदाः कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको यथा संसारी जीवः सिद्धसदृक् शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धः द्रव्यार्थिको यथा द्रव्यं नित्यम् । भेदकल्पनानिरपेक्ष: शुद्धद्रव्यार्थिको यथा निजगुणपर्यायस्वभावाद् द्रव्यमनित्यम्। कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिको यथा, क्रोधादिकर्मजभाव आत्मा । उत्पादव्ययसापेक्षोऽशुद्धद्रव्यार्थिको यथैकस्मिन् समये द्रव्यमुत्पादव्ययध्रौव्यात्मकम् । भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिको यथा आत्मनो ज्ञानदर्शनादयो गुणाः । अन्वयद्रव्यार्थिको यथा गुणपर्यायस्वभावं द्रव्यम् । स्वद्रव्यादिग्राहकद्रव्यार्थिको यथा स्वद्रव्यादिचतुष्ट यापेक्षया द्रव्यमस्ति । परद्रव्यादिग्राहकद्रव्यार्थिको यथा परद्रव्यादिचतुष्ट यापेक्षया द्रव्यं नास्ति । परमभावग्राहकद्रव्यार्थिको यथा ज्ञानस्वरूप आत्मा। अत्रानेकस्वभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः। इति द्रव्यार्थिकस्य दश भेदाः ।
अथ पर्यायार्थिकस्य षड्भेदा उच्यन्ते -
अनादिनित्यपर्यायार्थिको यथा पुद्गलपर्यायो नित्यो मेर्वादिः । सादिनित्यपर्यायार्थिको यथा सिद्धपर्यायो नित्यः । सत्तागौणत्वेनोत्पादव्ययग्राहिकस्वभावोऽनित्यशुद्धपर्यायार्थिको यथा समयं समयं प्रति पर्याया विनशिनः । सत्तासापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको यथा एकस्मिन् समये त्रयात्मकः पर्यायः । कर्मोपाधिनिरपेक्षस्वभावोऽनित्यशुद्धपर्यायार्थिको यथा सिद्धपर्यायसदृशाः शुद्धाः संसारिणां पर्यायाः। कर्मोपाधिसापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको यथा-संसारिणामुत्पत्तिमरणे स्तः । इति पर्यायार्थिकस्य पड्भेदाः ।।७९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org