________________
कुत इत्याह 'तद्योगयोग्यताभेदात् स चासौ योगयोग्यतायाः योगनिमित्तभावस्य भेदो विशेषस्तस्मात् इति - एवम् सम्यग्विचिन्त्यतां = विमृश्यतामिति । पूर्वं ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासीच्चरमावर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजनादन्यादृशत्वमिति ।।। १६२ ।।
एतेषु च यच्चरमावर्ते स्यात्तदाह चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः । सहजाल्पमलत्वं तु, युक्तिरत्र पुरोदिता ॥ १६३ ॥
चतुर्थं तुरीयम्, एतदनुष्ठानं = तद्धेतुनामकम् प्रायेण = बाहुल्येन ज्ञेयमस्य =चरमावर्तभाज आदिधार्मिकस्य महात्मनः प्रशस्तभावस्य, अनाभोगादिभ्यः कदाचिदन्यथापि स्यादिदमिति प्रायोग्रहणम् । एतदपि कुतः यतः सहजाल्पमलत्वं तु - सहजो जीवसमानकालभावित्वेनाल्पस्तुच्छो मलो वक्ष्यमाणरूपो यस्य स तथा तद्भावस्तत्त्वं पुनः युक्ति:- हेतुः अत्राऽस्मिन्नर्थे पुरोदिता = प्रागुपन्यस्तेति ।। १६३ ।। अथ मलमेवाधिकृत्याह
१३.
-
१४. सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्यताम् ।
आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः ॥ १६४ ॥
सहजं तु=सहजं पुनः मलं विद्यात् = जानीयात् कामित्याह कर्मसम्बन्धयोग्यतां= ज्ञानावरणादिकर्म-संश्लेषनिमित्तभावम् कस्येत्याह आत्मनः = जीवस्य । कुत इत्याह 'अनादिमत्त्वेऽपि' बन्धस्य, न नैव, अयं-बन्धः एनां योग्यतां जीवस्य विना-अन्तरेण यतः=यस्मात्कारणात् किलानादिमान् भावो गगनादिर्न कञ्चन हेतुं स्वस्वभावलाभेऽपेक्षते, बन्धश्च प्रवाहापेक्षयैवानादिमान् ततो न जीवयोग्यतामन्तरेणैष उपपद्यते, अन्यथाऽनेकदोषप्रसङ्गात् ॥ १६४ ||
યોગબિંદુ ગ્લો. ૧૪૯માં મુક્તિ-અદ્વેષના પ્રભાવે ચ૨માવર્ત્તવર્તી જીવોના પૂર્વસેવારૂપ ગુરુ આદિ પૂજાના અનુષ્ઠાનથી અત્યન્ત ગુણ થવાનું જણાવે છે. ત્યારપછી ૨શ્લોક ૧૫૨-૧૫૩ માં સ્પષ્ટ જણાવે છે કે જૈન શાસનમાં એક જ અનુષ્ઠાન કર્નાભેદથી ભિન્ન ભિન્ન છે. અહીં આશયભેદને પ્રધાન ન કર્યો. અર્થાત્ મોક્ષના આશય અને પૌદ્ગલિક આશયથી અનુષ્ઠાનભેદ ન કર્યો. કર્રાભેદે ભેદ
(१)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org