________________
दिवशाद्विधीयमानमपि अननुष्ठानमुच्यते = अनुष्ठानमेव न भवतीत्यर्थः । कुत एतदित्याह सम्प्रमुग्धं = सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहमनध्यवसायामात्ररूपमापन्नं मनः-अन्तःकरणं अस्य - अनाभोगवतः 'इति' पादपरिसमाप्तौ । यत एवं ततश्च मनःसम्प्रमोहादेव हेतोः एतत्प्रागुक्तम् यथोदितं=यथा निरूपितं तथैवेति ।। १५८ ।।
एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ।। १५९ ।।
एतद्रागात्-सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः = कारणम् श्रेष्ठो - ऽवन्ध्यो वर्तते एतद्योगविदो विदुः = जानते, कस्य हेतुरित्याह सदनुष्ठानभावस्य = तात्त्विकदेवपूजाद्याचारपरिणामस्य । कुत इत्याह शुभभावांशयोगतः = मुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसंगमात् ।। १५९।।
९
१०. जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगर्भमत्यन्तममृतं मुनिपुङ्गवाः ।। १६० ।।
जिनोदितं-जिननिरूपितं ‘इति तु' = अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते भावसारं=शुद्धश्रद्धा-प्रधानम् । अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसंज्ञम् मुनिपुङ्गवाः= गौतमादिमहामुनय इति ।। १६० ।।
११. अथ प्रस्तुतमेवाधिकृत्याह -
एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् | पुद्गलानां परावर्ते गुरुदेवादिपूजनम् || १६१ ।।
एवं चा-ऽस्मिंश्चानुष्ठानपञ्चविधत्वे स्थिते सति कर्तृभेदेना-ऽनुष्ठातृविशेषेण चरमेऽपश्चिमे अन्यादृशं मुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजनाद्विलक्षणम् स्थितं-प्रतिष्ठितम् पुद्गलानां परावर्ते गुरुदेवादिपूजनमुक्तरूपमेवेति ।। १६१ ।।
१२.
यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः । तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥ १६२ ॥
यतः यस्मात्कारणात् विशिष्टो - विलक्षणः कर्ता - देवपूजनादिनाम् अयंचरमावर्तवर्त्ती जन्तुः तदन्येभ्यः प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः, नियोगतो-नियमेन ।
(८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org