SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ इत्थम्=इदंप्रकारम् चकारः पूर्वोक्तभावनार्थः एतदनुष्ठानभेदलक्षणं वस्तु यतो यस्मात् प्रोक्तम् सामान्येनैव न तु चरमाऽचरमावर्त्तभेदमपेक्ष्य पञ्चधा - पञ्चभिः प्रकारैः, विषादिकं विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे = पर्यालोचने अत्रैवाऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः || १५४ ॥ इदमेव दर्शयति - विषं गरोननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः ।। १५५ ।। विषं स्थावरजङ्गमभेदभिन्नम् ततो विषमिव विषम्, एवं गरोऽपि योजनीयः परं गरः-कुद्रव्यसंयोगजो विषविशेषः, अनुष्ठानं अनुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः, अमृतमिवामृतममरणहेतुत्वात् । परं प्रकृष्टं गुर्वादिपूजानुष्ठानम् प्रकृतमेव वर्तते । कुत इत्याह अपेक्षादिविधानतः = अपेक्षाया इहलोकपरलोकफलस्पृहानुरूपाया आदिशब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् ।। १५५ ।। विषादित्वमेव भावयन्नाह ६. विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ।। १५६ ।। विषं लब्ध्याद्यपेक्षातो=लब्धिकीर्त्यादिस्पृहा-लक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते कुत इत्याह सच्चित्तमारणात् = परिशुद्धान्तःकरणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद् अतितुच्छलब्ध्यादिस्पृहणात्सकाशात् लघुत्वापादनं लघुभावाधानं तस्मात् । तथा इति हेत्वन्तरभावनार्थः । ज्ञेयमिदं विषमिति || १५६ || दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ।। १५७ ।। दिव्यभोगाभिलाषेण= ऐहिकभोगनिःस्पृहस्य स्वर्गस्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिण: = मतिमन्तः एतद् = देवापूजाद्यनुष्ठानम् विहितनीत्यैव= सच्चित्तमारणादिरूपयैव, गरं कालान्तरनिपातनात् कालान्तरे = भवभवान्तररूपेऽनर्थसम्पादनाद् । आत्मनः किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति । १५७ ।। ७. अनाभोगवतश्चैतदननुष्ठानमुच्यते । सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥ १५८ ॥ अनाभोगवतश्च=इहलोकपरलोकयोरपि संमूर्छ नजतुल्यप्रवृत्तितया क्वचिदप्रणिहितमनसः पुनः पुंसः एतद् = गुरुदेवपूजाद्यनुष्ठानं तथाविधसमुदया (एए) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004956
Book TitleIshtafal Siddhi Prakaran
Original Sutra AuthorN/A
AuthorPadmasenvijay
PublisherMehul Jain Mitra Mandal Ahmedabad
Publication Year2008
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy