________________
અહીં શંકા થઈ શકે કે તો પછી પૌદ્ગલિક આશયથી થતી ધર્મક્રિયાને વિષાનુષ્ઠાન અને ગરાનુષ્ઠાન કેમ કીધી?
આનો ઉત્તર ખૂબ જ શાંત ચિત્તે પૂર્વગ્રહરહિતપણે ઊંડાણથી વિચારવાની જરૂર છે. આ વિષાદિ અનુષ્ઠાનનો અધિકાર પૂજ્યપાદ આચાર્યશ્રી હરિભદ્રસૂરિ મહારાજ આદિના “યોગબિન્દુ વગેરે ગ્રન્થમાં જોવા મળે છે માટે સૌ પ્રથમ એનો સંદર્ભ જોઈએ :१. गुर्वादिपूजनान्नेह तथा गुण उदाहृतः ।
मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः ॥ १४९ ॥
गुर्वादिपूजनादुक्तरूपात्सकाशात् न नैव इह-पूर्वसेवायाम् तथा गुण:= पूजकोपकारः उदाहृतो मतिमद्भिः । मुक्त्यद्वेषाद् गुर्वादिपूजाऽभावेऽपि यथात्यन्तमतीव गुणो, महापायनिवृत्तितो महापायस्य संसारनामकस्याऽपायस्य पराकरणाद-निवृत्तेः ॥ १४९ ॥
एतद्युक्तमनुष्ठानमन्यावर्तेषु तद् ध्रुवम् । चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥ १५२ ।।
एतद्युक्तं-भवाभिष्वड्गानाभोगसंगतम्, अनुष्ठानं-गुरुदेवादिपूजनरूपम् अन्यावर्तेषु-चरमावर्तविलक्षणेषु, तत्पूर्वसेवारूपतयोपन्यस्तम् ध्रुवं=निश्चितम्, चरमे तु-चरमे पुनः परावर्ते अन्यथाऽन्यप्रकारं ज्ञेयम्, कुत इत्याह सहजाल्पमलत्वतः स्वाभाविककर्मबन्धयोग्यतालक्षणमलतुच्छभावात् ॥ १५२ ।। ३. एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते ।
सरुजेतरभेदेन भोजनादिगतं यथा ॥ १५३ ॥
एकमेव ह्येकाकारमेव अनुष्ठानं देवतापूजनादि कर्तृभेदेन=चरमाऽचरमावर्तवर्तितया कारकजन्तुनानात्वेन भिद्यते विशिष्यते । दृष्टान्तमाह सरुजेतर-भेदेन, भोजनादिगतं-भोजनपानशयनासनादिगतं, यथा येन प्रकारेण एतस्य रोगवृद्धिहेतुत्वादन्यस्य च बलोपचयार्थत्वादिति ॥ १५३ ।। ४. एतदेव दृढयन्नाह -
इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ॥ १५४ ॥
(11)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org