________________
यस्मात्कारणात् अनुष्ठानं-क्रिया निर्वाणांगं-मुक्तिकारणं भणितं - उक्तं अन्यैरपि - तंत्रान्तरीयैः किं पुनर्जिनैः? योगमार्गे-अध्यात्मशास्त्रपथे, अतो विषयादिशुद्धतयैतेषां निर्वाणाङ्गत्वान्निर्निदानतेति हृदयमिति ।। ४२ ॥ एतच्च-एतत्पुनरनन्तरोक्तं तपः विषयशुद्धं निर्दोषगोचरं सकलदोषमोषि-जिनपतिविषयत्वात् एकान्तेनैव सर्वथैव यद् यस्मात् ततः-तस्माद्धेतोः युक्तं-सगंतं प्रार्थनागर्भमपीदं तपः, कुत ? इति आह आरोग्यबोधिलाभादीनां 'आरोग्गबोहिलाभं समाहिवरमुत्तमं दितु' इत्येवंरूपा या प्रार्थना-याञ्चा तत्प्रधानं यच्चित्तं-मनस्तेन तुल्यं-समानं यत् तदारोग्यबोधिलाभादिप्रार्थनाचित्ततुल्यं इति कृत्वा । इति गाथाद्वयार्थ: ।। ४३ ।।
-..
..
१
U
(१०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org