________________
पढियो तवो विसेसो अण्णेहिवि तेहि तेहिं सत्थेहिं । मग्गपडिवत्तिहेउ हंदि विणेयाणुगुण्णेणं ॥ २९ ॥
किमिति आह-पठितः अधीतस्तपोविशेषः तपोभेदः अन्यैरपि ग्रन्थकारैः तेषु तेषु शास्त्रेषु नानाग्रन्थेष्वित्यर्थः । नन्वयं पठितोऽपि साभिष्वङ्गत्वान्न मुक्तिमार्ग इत्याशंक्याह-मार्गप्रतिपित्तिहेतुः-शिवपथाश्रयणकारणं, यश्च तत्प्रतिपतिहेतुः स मार्ग एवोपचारात् । कथमिदिमिति चेद् ? उच्यते हंदीत्युपप्रदर्शने विनेयानुगुण्येन= शिक्षणीयसत्त्वानुरूप्येण, भवन्ति हि केचित् ते विनेया ये साभिष्वङगानुष्ठानप्रवृताः सन्तो निरभिष्वङ्गमनुष्ठानं लभन्ते । इति गाथाद्धयार्थः ॥ २९ ।। एएसु वट्टमाणो भावपवित्तिए बीयभावाओ सुद्धासयजोगेणं अणियाणो भवविरागाओ ॥ ४१ ॥ विसयसरुवणुबंधेहिं तह य सुद्धं जओ अणुट्ठाणं । णिब्वाणगं भणियं अण्णेहिवि जोगमग्गंमी ॥ ४२॥ एयं च विसयसुद्धं एगंतेणेव जं तओ जुत्तं । आरोग्गबोहिलाभाइपत्थणाचित्ततुल्लंति ॥४३॥
अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी प्रवर्तते ततोऽन्याय्यान्येतानीत्याशंकापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाह-एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानोव्याप्रियमाणो जीवः ‘एतेसुं बहुमाणा' इति पाठान्तरं व्यक्तं च, कया? भावप्रवृत्त्याबहुमानसार-क्रियया अनिदान इति योगः। कुत इति ? आह-बीजभावात्-बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन, एतदेव कथमिति? आह शुद्धाशययोगेन =शुभाध्यावसायसंबन्धेन, शुभाध्यवसायाद्धि बोधिबीजं स्यात् अनिदानो-निदानरहितः स्यात्, तथा भवविरागात्-संसारनिर्वेदात्, यत् किल भवविरागादिनिमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव, भावविरागादिहेत-वश्चोक्ततपांसि केषांचिदतो निर्निदानानि ।। इति गाथार्थः ।। ४१ ।।
निर्निदानत्वादेवैतेषां निर्वाणांगतामाचार्यान्तरमतेनापि दर्शयन्नाह-विषयोगोचरः उक्ततपसामालंबनीयस्तीर्थकरनिर्गमादिः स्वरूपं-उक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यपूजासाधुदानादिलक्षण: अनुबन्धश्च-तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरूपानुबन्धेषु, तथाचेति समुच्चये, शुद्धं-निरवद्यं यतो
(१०६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org