________________
पञ्चाशकशास्त्रसन्दर्भ: अण्णोऽवि अत्थि चित्तो तहा तहा देवयाणिओएण । मुद्धजणाण हिओ खलु रोहिणिमाई मुणेयव्वो ॥ २३ ॥ किंच-अण्णोऽवी त्यादि, अन्यदपि अस्ति विद्यते चित्रं तप इति गम्यते, तथा तथा =तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन-देवतोद्देशेन मुग्धजनानां= अव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात्, रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि मुणेयव्यो त्ति ज्ञातव्यं, पुंलिंगता च सर्वत्र प्राकृतत्वात् । इति गाथार्थः ।। २३ ॥ जत्थ कसायणिरोहो बंभं जिणपूयणं अणसणं च । सो सब्बो चेव तवो विसेसओ मुद्धलोयंमि ॥ २६ ॥ एवं पडिवत्तीए एत्तो मग्गाणुसारिभावाओ । चरणं विहियं बहवो पत्ता जीवा महाभागा ॥ २७ ॥
अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह - जत्थेत्यादि, यत्र तपसि कषायनिरोधो, ब्रह्म, जिनपूजनमिति व्यक्तं, अनशनं च = भोजनत्यागः सो ति तत् सर्वं भवति तपो, विशेषत: मुग्धलोके, मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते न पुनरादित एव तदर्थं प्रवर्तितुं शक्नोति, मुग्धत्वादेवेति । सद्बुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव तपस्यन्ति, यदाहमोक्षार्थमेव विहितमिदमिति बुद्ध्यैव तपस्यन्ति, यदाह-'मोक्षायैव तु घटते विशिष्ट मतिरुत्तमः पुरुषः' इति, मोक्षार्थ-घटना चागमविधिनैव, आलंबनान्तरस्यानाभोगहेतुत्वात् । इति गाथार्थः ।।२६ ॥
न चेदं देवतोद्देशेन तप: सर्वथा निष्फलमैहिकफलमेव वा चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह-एवमित्यादि, एवमित्युक्तानां सार्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तपोरूपोपचारेण तथा इत:उक्तरूपकषायादिनिरोधप्रधानात्तपसः पाठान्तरेण एवमुक्त कारणेन = मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायात् चरणं-चारित्रं विहितं आप्तोपदिष्टं बहवः-प्रभूता: प्राप्ता-अधिगता: जीवाः सत्त्वा महाभागा-महानुभावा: । इति गाथार्थः ।। २७ ॥
(१०५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org