SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्राचीनदीक्षाविधिप्रदर्शनम् • १९०५ देयेति । अस्य = योग्यस्य विधिना आगमोक्तेन दीक्षा देया नामादिन्यासपूर्वकम् । अयं च नामादिन्यासः सम्प्रदायाऽनुसारतो हन्ताऽनुपप्लवो = विघ्नरहितः, प्रवचनप्रसिद्धनामादिन्यासेनैव निर्विघ्नदीक्षानिर्वाहात्, कृतप्रशान्तादिनाम्नः प्रशमादिस्वरूपोपलम्भात् । इत्थं दीक्षायाः फलसाम्ये देयत्वमाविर्भावयति- 'देये 'ति । योग्यस्य पूर्वोक्तरीत्या दीक्षार्हस्यैव व्यवहारभाष्ये पञ्चकल्पभाष्ये निशीथभाष्ये च या अष्टचत्वारिंशत्पृच्छा दर्शिताः तद्विशुद्धौ सत्यां दुःखं खलु श्रामण्यमित्यादिकथनपूर्वं तदभ्युपगमे सति, पुंनामेसु निमित्तेसु सेहनिक्खमणं करे । थीनामेसु निमित्तेसु सेहीनिक्खमणं करे ।। निमित्तेसु पसत्थेसु दढेसु बलिएसु य । सेहनिक्खमणं कुज्जा वओवट्ठावणाणि य ।। ← (ग.वि. ७६,७९) इति गणिविद्याप्रकीर्णकदर्शितरीत्या प्रशस्तबलवन्निमित्तमनुसृत्य प्रशस्तद्रव्यादिषु अडयालपुच्छसुद्धे भन्नति दुक्खं खु सामन्नं ।। गोयर अचित्तभोयण सज्झायमण्हाण - भूमि सेज्जाती । अब्भुवगयंमि दिक्खा दव्वादीसुं पसत्थेसुं ।। लग्गादि च तुरंते अनुकूले दिज्जिए उ अहसायं । सयमेव तु थिरहत्थो गुरु जहण्णेण तिष्णट्ठा ।। अण्णो वा थिरहत्थो सामाइयतिगुणमट्ठगहणं च । तिगुणं पादक्खिणं नित्थारग गुरुगुणविवड्ढी ।। ← (व्य.सू.भा.४/३०६-७-८- ९) इति व्यवहारसूत्रभाष्योपदर्शितेन आगमोक्तेन यद्वा अपरोवतावं सव्वहा, सुगुरुसमीवे, पूइत्ता भयवंते वीअरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्ताऽऽवस्सए, सुविसुद्धनिमित्ते, समाहिवासिए, विसुज्झमाणो महया पमोएणं सम्मं पव्वज्जा लोअधम्मेहिंतो लोगुत्तमधम्मगमणेण ← (पं.सू. ३ / ६ ) इति पञ्चसूत्रादिशास्त्रगदितेन विधिना दीक्षा समुचितलग्नादिवेलायां देया नामादिन्यासपूर्वकं नाम-स्थापनादीनां चतुर्णां प्रवचनप्रसिद्धानां आरोपणपूर्वम् । = इत्थमेव तस्या मोक्षबीजत्वोपपत्तेः, अन्यथाऽयोग्यस्य तत्प्रदाने दुरन्तसंसाराऽऽपत्तेः । तदुक्तं षोडश देयाऽस्मै विधिपूर्वं सम्यक् तन्त्राऽनुसारतो दीक्षा । निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् ।। ← ( षो. १२ / ६) इति । सम्प्रदायाऽनुसारतः 'पुच्छा वासे चिइ, वेस "वंदणुस्सा' लग्गअट्ठति । 'समइतिअ "तिपयाहिण १० उस्सग्गो नाम १ १ १ २ अणुसट्ठी ।। ← (प्रा.सा. प्र. पृष्ठ - १४) इति प्राचीनसामाचारीप्रकरणादिदर्शितरीत्या स्वजीताऽनुरोधतः नामादिन्यासः विघ्नरहितः अनुपप्लवः सम्पद्यते । शास्त्रोक्तविध्यसम्पादनेऽनुष्ठानफलाऽयोगः । एतेन अशास्त्रोक्ते क्रियमाणे विगुणं भवति विगुणे च कर्मणि फलाऽनवाप्तिः ← (पा.म.भा. १/२/६४) इति पातञ्जलमहाभाष्यवचनमपि व्याख्यातम् 1 નામાદિન્યાસ સંપ્રદાય મુજબ નિર્વિઘ્ને સંપન્ન થાય છે. (૨૮/૪) ટીકાર્થ :- ઉપરોક્ત બન્ને પ્રકારના દીક્ષાયોગ્ય જીવને આગમોક્ત વિધિ મુજબ નામાદિન્યાસ કરવા પૂર્વક દીક્ષા આપવી જોઈએ. નામાદિનો મુમુક્ષુમાં ન્યાસ (= સ્થાપન) સંપ્રદાય મુજબ કરવાથી તે નિર્વિઘ્ન સંપન્ન થાય છે. કારણ કે આગમપ્રસિદ્ધ નામાદિનું મુમુક્ષુમાં સ્થાપન કરવા દ્વારા જ વિઘ્નરહિતપણે દીક્ષાનો નિર્વાહ થાય છે. જે દીક્ષિતનું ‘પ્રશાંત’ વગેરે નામ રાખવામાં આવેલ હોય તેમાં પ્રશમ ભાવ વગેરેનું स्व३५ भेवा भणे छे. (प्रशांतविश्य, प्रशांतरत्नसागर, प्रशांतवस्लम, प्रशांतजोधिविभत, प्रशांतयश, Jain Education International For Private & Personal Use Only www.jainelibrary.org = = = =
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy