________________
• माषतुषादेः सूक्ष्मतत्त्वोपलम्भः .
१९०३ एक इति । स्पष्टः ।।२।। यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः। योग्यता तस्य दीक्षायामपि माषतुषाऽऽकृतेः ।।३।।
यस्येति । यस्य क्रियासु = चारित्राऽनुष्ठानेषु सम्यग्गुरुरागतः सामर्थ्यं स्यात् तस्य माषतुषाऽऽ कृतेरपि = मुग्धतया माषतुष सदृशस्यापि दीक्षायां योग्यता ।।३।।
इत्थं ज्ञानिवत् शास्त्राभ्यासशून्यस्याऽप्युक्तरूपस्य तुल्यफलत्वात् दीक्षायोग्यत्वमिति दर्शयति- 'यस्येति । यस्य = तत्त्वसंवेदन-भावना-स्पर्शज्ञानरहितस्याऽपि चारित्राऽनुष्ठानेषु सम्यग् = जात्यादिसमसम्बन्धज्ञानविरहेण निर्दम्भं गुरुरागतः = धर्माचार्यादिषु ‘भवक्षयहेतुरयं मे गुरुः, तदीयहस्ते मदीयमोक्ष' इत्येवं अन्तरङ्गबहुमानभावात् सामर्थ्य = भावनाज्ञानिकृतक्रियाजन्यफलसदृशफलजननशक्तिः तस्य मुग्धतया अनाभोगतो माषतुषसदृशस्याऽपि दीक्षायां योग्यता भवति । तदुक्तं षोडशके → यस्याऽस्ति सत्क्रियायामित्थं सामर्थ्ययोग्यताऽविकला। गुरुभावप्रतिबन्धाद् दीक्षोचित एव सोऽपि किल ।। 6 (षो.१२/५) इति । न चैवमपि जडबुद्धितया कथं तेषां प्रव्रज्यानिर्वाहकशुभपरिणामसिद्धिः ? इति शङ्कनीयम्, यतो माषतुषादीनां जीवाऽजीवादितत्त्वगोचरव्यक्तश्रुतोपयोगाऽभावेऽपि मार्गानुसारित्वतः तीव्रमिथ्यात्वमोहनीयक्षयोपशमभावात् शुभौघसंज्ञानयोगात् शुभः परिणामः प्रव्रज्यादिनिर्वाहकः सम्भवत्येव । ते हि बहिर्बहु श्रुतमपठन्तोऽपि मार्गानुसारित्वादिप्रयुक्त-हेयोपादेयादिगोचराऽतितीक्ष्णप्रज्ञतया बहुपाठकस्थूलप्रज्ञपुरुषानुपलब्ध तत्त्वमवबुध्यन्त एव । तदुक्तं → स्पृशन्ति शरवत् तीक्ष्णाः स्वल्पमन्तर्विशन्ति च । बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् ।। 6 ( ) इति । प्रसिद्धश्चाऽयमर्थ उपदेशपदे → मासतुसादीयाण उ मग्गणुसारित्तओ सुहो चेव । परिणामो विन्नेओ सुहोहसण्णाणजोगाओ ।। 6 (उप.पद.१९३) इत्यत्र ।
यद्वा सूक्ष्मबोधविरहेऽपि सच्चारित्रसम्पन्नतयाऽल्पस्याऽपि श्रुतस्य प्रकाशकत्वं सम्भवत्येव । तदुक्तं आवश्यकनियुक्तौ → अप्पं पि सुयमहियं पयासयं होइ चरणजुत्तस्स । इक्को वि जह पईवो सचक्खुस्सा पयासेइ ।। - (आ.नि.९९) इति । एतेन तीर्थकाकन्यायविषयीभूतानां दीक्षायामनधिकारः सूचितः। एतेन → यथा तीर्थे काका न चिरं स्थातारो भवन्ति एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाकः ( (पा.म.भा.२/१/४२) इति पातञ्जलमहाभाष्यवचनमपि व्याख्यातम् । इदमेवा
વિશેષાર્થ :- સાચા રસ્તા ઉપર ચાલનાર દેખતો માણસ અને તેનો હાથ પકડીને કે તેની સૂચના મુજબ ચાલનાર જન્માંધ માણસ – આ બન્ને જો વ્યવસ્થિત રીતે ચાલવાનો પુરુષાર્થ છોડે નહિ તો એકીસાથે નગરમાં પહોંચે છે. આ દૃષ્ટાંતમાં આંખવાળો માણસ એટલે સમ્યજ્ઞાન-ભાવનાજ્ઞાનસ્વરૂપ આંખવાળા ગીતાર્થ સાધુ સમજવા. જન્માંધ વ્યક્તિ તરીકે અગીતાર્થ લેવા. હાથ પકડવો = પૂર્ણતયા સમર્પિત રહેવું. सायो २२तो = मोक्षमार्ग. यस. = भोक्षपुरुषार्थ ४२वो. न॥२ = भोक्ष. (२८/२)
હ ગુરુસમર્પણ દીક્ષાપાલનનું ચાલક બળ હ ગાથાર્થ :- માતુષ જેવા જે જીવમાં સારી રીતે ગુરુ પ્રત્યેના રાગથી સદનુષ્ઠાનોને વિશે સામર્થ્ય डोय तेनामा ५९ नमानी योग्यता मान्य छे. (२८/3)
ટીકાર્થઃ-મુગ્ધતાના લીધે માપતુષ મુનિ જેવા પણ જે જીવમાં ચારિત્ર સંબંધી અનુષ્ઠાનો કરવાનું સામર્થ્ય ગુરુ પ્રત્યેના સાચા બહુમાનભાવના કારણે હોય તેવા જીવમાં પણ દીક્ષાની યોગ્યતા શાસ્ત્રમાન્ય છે.(૨૮/૩) ....... चिह्नद्वयवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org