________________
१९०२
• गुर्वाज्ञाऽधीनस्य व्यवहारतो दीक्षा •
अथवा ज्ञानिनिश्रावतो
गुरुपरतन्त्रस्य ।। १ ।। एतदेव भावयति -
एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्नुतो युगपद् ग्रामं गन्तव्यं यदुभावपि ।। २ ।।
द्वात्रिंशिका - २८/२
=
=
तदुक्तं मरणविभक्तिप्रकीर्णके
नाणसहियं चरित्तं, नाणं संपायगं गुणसयाणं । एस जिणाण आणा, थि चरितं विना नाणं ।। ← ( म. वि. प्र. १३८) इति । तदुक्तं षोडशके सा ज्ञानिनो नियोगाद् यथोदितस्यैव साध्वीति ← ( षो. १२ / २) इति ।
यदि ज्ञानिन एव दीक्षा साध्वी तदा कथं तच्छून्यानां माषतुषादीनां समये सा श्रेयसी श्रूयते ? इत्याशङ्कायां कल्पान्तरमावेदयति- ' अथवे 'ति गुरुपरतन्त्रस्य इति । स्वाऽऽश्रयपारतन्त्र्यसम्बन्धेन माषतुषादीनामपि दृढश्रद्धादिवतां भावनाज्ञान- तत्त्वसंवेदनज्ञानमस्त्येवेति न काऽप्यनुपपत्तिः । इदमेवाऽभिप्रेत्य पञ्चाशके गुरुपारतंतं नाणं सद्दहणं एयसंगयं चेव । एतो उ चरित्तीणं मासतुसादीण णिद्दिट्ठे ।। ← (पञ्चा.११/७) इत्युक्तमिति पूर्वमपि (पृ. १६४,४३३) दर्शितम् । पूर्वं मार्गद्वात्रिंशिकायामपि ( द्वा.द्वा.३/१७ भाग- १ पृ. १६४) गीतार्थपारतन्त्र्येणाऽज्ञानिनां ज्ञानं दर्शितमित्यवधेयम् । साधुसामग्ग्रद्वात्रिंशिकायामपि ( द्वा. द्वा. ६ / २५ पृ.४३२ ) ज्ञानवत्पारतन्त्र्यस्य फलतो ज्ञानत्वमुक्तम् । गुरुसमर्पणस्य ज्ञानकारणत्वादेव महाभारतेन विना गुरुसम्बन्धं ज्ञानस्याऽधिगमः स्मृतः ← ( म.भा. शांति.३३४/२२) इत्युक्तम् । अत एव षोडशकेऽपि यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ।। ← ( षो. १२ / ३) इत्युक्तमित्यवधेयम् ।।२८/१।।
=
एतदेव ज्ञानि-तन्निश्रितयोः दीक्षाधिकारित्वमेव भावयति- 'एक' इति । यद् = यस्मात् कारणात् इह = लोके एकः कश्चित् पुरुषः मार्गज्ञो मार्गगमनप्रवृत्तः चक्षुष्मान् = निर्मलाऽनुपहतनेत्रः स्यात्, अन्यः अन्धादिः तदनुवृत्तिमान् = मार्गज्ञस्य मार्गप्रवृत्तस्य चक्षुष्मतोऽनुसरणपरायणः, मार्गानुसारिताप्रयोजकाऽदृष्टेनाऽज्ञान्यनुवृत्तिव्यावर्त्तनात् । एतौ उभौ अपि अनवरतप्रयाणप्रवृत्त्या गन्तारौ सन्तौ गन्तव्यं अभिमतनगरादि युगपत् समकालमेव प्राप्नुतः, तयोरग्रपृष्ठभावेन व्रजतोरेकपदन्यास एवाऽन्तरं, न महत् । यद्वा तदपि तुल्यपदन्यासयोरेकश्रेण्या बाहुलग्नयोः व्रजतोर्नास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिरनाविलैव । एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुक्तिपुरप्राप्तौ नाऽन्तरमित्यर्थः । युक्तञ्चैतत् पाण्डव- द्राविडवारिखिल्लादि-तन्निश्रितप्रत्याख्याताऽशनादीनां युगपदेव शत्रुञ्जये मुक्तिश्रवणात् । तदुक्तं षोडशके चक्षुष्मानेकः स्यादन्धोऽन्यः तन्मताऽनुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ।। ← ( षो. १२/ ४) इति पूर्वोक्तं (पृ.१६४, ४०१,४३३) अनुसन्धेयमत्र ।
तत्त्वतो ज्ञानिनिश्रितस्याऽगीतार्थस्यान्धत्वं नैव सम्मतम्, गीतार्थसमर्पण-सान्निध्यादिलक्षणचक्षुरुपेतत्वात् । एतेन एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ।। ← ( आचारांगसूत्रे उद्धृतः ८२ श्लोक ) इत्यपि पूर्वोक्तं (पृ.१६४ ) व्याख्यातम् ||२८/२ ॥
અથવા જ્ઞાની એવા ગુરુની નિશ્રાંવાળા સમર્પિત જીવને દીક્ષા હોય છે. (૨૮/૧)
# દીક્ષાના અધિકારી
ગાથાર્થ :- આ જગતમાં એક આંખવાળો હોય અને બીજો આંખશૂન્ય માણસ તેને અનુસરનાર
હોય, તે બન્ને ય એકીસાથે પ્રાપ્તવ્ય ગામને પ્રાપ્ત કરે છે. (૨૮/૨)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org