SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ • दीक्षानिरुक्तिः . १९०१ ॥ अथ दीक्षाद्वात्रिंशिका ॥२८॥ अनन्तरं भिक्षुरुक्तः । स च दीक्षासम्पन्नो भवतीति तत्स्वरूपमिहोच्यते - दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा । सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा ॥१॥ दीक्षा हीति । दीक्षा हि श्रेयसो दानात् तथाऽशिवक्षपणात् निरुच्यते । तदाह“श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति" (षोड.११/२) । सा निरुक्तार्थशालिनी दीक्षा नियोगेन = नियमेन ज्ञानिनो भवति । नयलता भिक्षाव्याप्या हि सद्दीक्षाऽतोऽधिकार्यादिभेदतः । स्वाऽन्यतन्त्राऽनुसारेण साम्प्रतं सा निरूप्यते।।१।। अनन्तरं भिक्षुद्वात्रिंशिकायां तत्त्व-भेद-पर्याय-प्रतिपक्षादिप्रकारैः भिक्षुः उक्तः। स च भिक्षुः अवश्यमुत्सर्गतो दीक्षासम्पन्नो भवतीति हेतोः तत्स्वरूपं = दीक्षास्वरूपं इह अष्टाविंशतितमद्वात्रिंशिकायां उच्यते 'दीक्षेति । श्रेयसः = कल्याणस्य दानात्, अशिवक्षपणात् = प्रत्यवायक्षपणात् सर्वैरेव महर्षिभिः निरुच्यते = व्युत्पाद्यते। प्रकृते षोडशकसंवादमाह- 'श्रेय' इति । परेषामपि सम्मतमिदम् । तदुक्तं गौतमीयतन्त्रे → ददाति दिव्यभावं चेत् क्षिणुयात् पापसन्ततिम् । तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः।। - (गौ.त. ) इति । विश्वसारे अपि → दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः। तस्मात् दीक्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता ।। 6 (वि.सा. ) इति दीक्षानिरुक्तिरुपदर्शिता । लघुकल्पतन्त्रेऽपि → दीयते परमं ज्ञानं क्षीयते पापपद्धतिः । तेन दीक्षोच्यते - (ल.क.त. ) इति दीक्षाव्युत्पत्तिरावेदिता। ततश्चाऽदीक्षितस्याऽनाथत्वमेव तत्त्वतो ज्ञेयम् । तदुक्तं दत्तात्रेययामले → अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि । तथा दीक्षाविहीनस्य नेह स्वामी परत्र च ।। 6 (द.या. ) इति । एतेन → दीक्षया रहितो जन्तुः पशुत्वं याति भूरिशः 6 (शां.सं.२/९/८) इति शाण्डिल्यसंहितावचनं → दीक्षयैव नरो विमुच्यते - (बृहदा.४/४६) इति च बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम् । ततश्च मुमुक्षुणाऽवश्यं दीक्षा शरणीकर्तव्येत्युपदेशो ध्वन्यते । नियमेन = निश्चयेन ज्ञानिनः = प्रागुक्त(द्वा.द्वा.६/५ भाग-२ पृ.३८६) तत्त्वसंवेदनज्ञानवतो भवति । જ દીક્ષા પ્રાચિંશિક પ્રમશ ૪ ૨૭ મી બત્રીસીમાં ભિક્ષુનું વર્ણન કરાયું. તે ભાવભિક્ષુ દીક્ષાસંપન્ન જ હોય છે. માટે દીક્ષાનું સ્વરૂપ આ ૨૮ મી બત્રીસીમાં ગ્રંથકારશ્રી વડે કહેવાય છે. हीक्षा' शनी निरुति. ગાથાર્થ - કલ્યાણનું દાન કરવાથી અને અકલ્યાણનો ક્ષય કરવાથી ખરેખર દીક્ષા કહેવાય છે. તે દીક્ષા નિયમા જ્ઞાનીને અથવા જ્ઞાનીની નિશ્રાવાળાને હોય છે. (૨૮/૧) ટીકાર્થ - કલ્યાણનું દાન કરવાના કારણે તથા અકલ્યાણનો ક્ષય કરવાના કારણે ખરેખર “દીક્ષા શબ્દની નિરુક્તિ = વ્યાખ્યા થાય છે. તેથી તો ષોડશક ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે “કલ્યાણનું દાન કરવાથી અને અકલ્યાણનો ક્ષય કરવાથી મહાત્માઓને જિનપ્રવચનમાં દીક્ષા માન્ય છે.” ઉપર વ્યાખ્યા કરેલ અર્થવાળી દીક્ષા અવશ્ય જ્ઞાનીને હોય છે. १. हस्तादर्श 'दीक्षा हीति' इति नास्ति । २. हस्तादर्श 'सतां ते' इति त्रुटितोऽशुद्धश्च पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy