________________
• तात्त्विक बौद्धभिक्षुनिरूपणम् •
स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही ।। ← (स्कं. पु.४/१/१०/५७) इति स्कन्दमहापुराणवचनमपि व्याख्यातम् ।
अत एव त्यक्तगृहाः = सन्न्यस्तागारा अपि हन्त इति खेदे स्व-परोभयार्थं निष्प्रयोजनं वा त्रिधा आर्तध्यान-खरादिभाषण-लक्षवेधनादिभिः यथाक्रमं मनोवाक्कायैः करण-कारणाऽनुमोदनप्रकारैः पापेषु प्राणातिपातादिषु निरताः यथेच्छं प्रवृत्ताः कुमार्गप्ररूपणप्रवणाश्च । अत एव ते कुमार्गाऽऽश्रिताः । तदुक्तं सूत्रकृताङ्गनिर्युक्तौ इड्ढि -रस- सायगुरुया छज्जीवनिकायघायनिरया । जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ।। ← (सू. नि. ११३ ) इति । भस्मन्याज्याऽऽहुतिन्यायेन निष्फलमेव भिक्षुत्वं तेषाम् । अतः ते न भावभिक्षवः किन्तु अपारमार्थिकाः लिङ्गिद्रव्यभिक्षवः, संवेग-निर्वेदादिशून्यत्वेऽपि जटाधारण-शिरोमुण्डन-दिगम्बरत्व-भस्माऽवगुण्ठन-त्रिदण्ड- त्रिशूलादितच्चिह्नधारणेन द्रव्यार्थं भिक्षणशीलत्वादिति । प्रकृते →
मिच्छद्दिट्ठी तस थावराण पुढवाइ - बिंदिआईणं । निच्चं वह - करणरया अभयारी अ संचइआ ।। दुपय-चउप्पय-धण-धन्न- कुविअ - तिअ - ति अपरिग्गहे निरया । सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ ।। करणतिए जोअतिए सावज्जे आयहेउ - पर- उभए । अट्ठाऽणट्ठपवत्ते ते विज्जा दव्वभिक्खुत्ति ।। इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ I सुद्धतवाऽभावाओ कुतित्थिआऽ बंभचारित्ि
||
← (द.वै.नि.१०/३३७-३४०) इति दशवैकालिकनिर्युक्तिगाथा अनुसन्धेयाः । अत्र चाऽर्धजरतीयन्यायो लब्धाऽवसरः। यथेयं स्त्री न तरुणी श्लथस्तनत्वात्, कृष्णकेशत्वान्न जरतीति वक्तुं शक्यते तद्वत् ते न गृहस्थाः त्यक्तगृहत्वात्, त्रिधा हिंसाभिरतत्वान्न भिक्षव इति व्यवहर्तुं युज्यन्ते । अतोऽत्र द्रव्यभिक्षुपदप्रयोगोऽर्हतीत्यवसेयम् । तदुक्तं बृहत्कल्पभाष्ये अपि जइ संजमो जइ तवो दढमित्तित्तं जहुत्तकारित्तं । जइ बंभं जइ सोयं एएसु परं न अन्नेसुं ।। ← (बृ.क. भा. २०११) इति । एतेषु जैनसाधुषु नान्येषु न परतीर्थिकेषु' । मिथ्याज्ञानबाहुल्यवत्सु परतीर्थिकभिक्षुषु यत्किञ्चित् सदाचारादिकं सदपि न सम्यगवभासते प्रेक्षावताम् । महताऽपि प्रयत्नेन तमिस्रायां परामृशन् । कृष्ण-शुक्लविवेकं हि न कश्चिदधिगच्छति ।। ← (त. वा. १/३/१ ) इति तन्त्रवार्तिकवचनमपि यथातन्त्रमन्त्राऽनुयोज्यम् । अत एवोक्तं उत्तराध्ययनसूत्रे अपि कुप्पवयणपासण्डी सव्वे उम्मग्गपट्ठिया । सम्मग्गं तु जिणक्खायं एस मग्गे हि उत्तमे ।। ← ( उत्त. २३/६३) इति ।
=
ये तु बौद्धभिक्षवः साम्प्रतं हरितबीज - प्राण्यादिनाश-विभूषादिप्रवृत्ता अकारणं द्विः त्रिर्वा भुञ्जन्ति, विकाले रात्रौ वा भुञ्जन्ति ते तु बौद्धशास्त्राऽनुसारेणाऽपि भिक्षवो न भवन्ति । तदुक्तं मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो बीजगामभूतगामसमारम्भा पटिविरतो होति एकभत्तिको होति रत्तूपरतो, विरतो विकालभोजना, नच्चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति ← (म.नि. १/३/७/२९३/पृ.२४३) इत्यपि विभावनीयमत्र । प्रकृते → द्रव्याऽर्थमन्नवस्त्राऽर्थं यः प्रतिष्ठार्थमेव वा । संन्यसेदुभयभ्रष्टः स मुक्तिं नाऽऽप्तुमर्हति ।। ← (मैत्रे. २/ २०) इति मैत्रेय्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । महार्णवयुगच्छिद्रकूर्मग्रीवाऽर्पणन्यायेन सुदुःखेन कथमपि प्राप्तां मनुष्यजन्मादिसामग्रीं ते हारयन्तीत्यवधेयम् ।।२७/२९।।
Jain Education International
For Private & Personal Use Only
=
=
=
१८९५
www.jainelibrary.org