________________
विशुद्धतपोविरहे भावभिक्षुत्वविरहः • द्वात्रिंशिका -२७/२९ त्रसस्थावरहन्तारो' नित्यमब्रह्मचारिणः । मिथ्यादृशः सञ्चयिनस्तथा सचित्तभोजिनः ।। २८ ।। विशुद्धतपसोऽभावादज्ञानध्वस्तशक्तयः । त्रिधा पापेषु निरता हन्त त्यक्तगृहा अपि ।। २९ ।। मणुस्सलोए अवयरिया' ते एवं बंभणा नाम, कोधी माणी मायी मिच्छादिट्ठी उज्जुपन्त्रे धम्मंमि अविकोविया मता याजणगा' दुपदादीणि मग्गमाणा दव्वभिक्खवो भण्णंति । तहा अन्नेऽवि जीवणियणिमित्तं तारिसा कप्पडियादीणं दीणा किविणा सिप्पतो भिक्खमडमाणाऽविज्जा दव्वभिक्खवो त्ति ← (द. वै. चूर्णि १०/ ३३६) इति व्याख्यातम्। अस्माभिस्तु श्रीहारिभद्रीयवृत्त्यनुसारेणाऽत्र व्याख्यातमित्यवधातव्यम्।।२७/२७।। उक्ता अपारमार्थिका गृहस्थद्रव्यभिक्षवः । साम्प्रतं लिङ्गिनोऽधिकृत्य अपारमार्थिकद्रव्यभिक्षून् कारिकायुगलेन ग्रन्थकृदुपदर्शयति- 'त्रसे 'ति 'विशुद्धे' ति च । नित्यं सर्वदा स-स्थावरहन्तारः = त्रसानां द्वीन्द्रियादीनां स्थावराणां च पृथिव्यादीनां प्राणिनां वधकरणरताः, अब्रह्मचारिणः दास्यादिपरिग्रहाद् आज्ञादानादिभावसङ्गाच्च न शाक्या भावभिक्षवः । तथा शाक्यभिक्षुप्रभृतयो हि मिथ्यादृशः = अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः सञ्चयिनः मनोवाक्कायैः करण-कारणाऽनुमोदनप्रकारैः द्विपद-चतुष्पदधन-धान्यादिपरिग्रहनिरताः । न चैतदनार्षम्, 'विहारान् कारयेद् रम्यान् वासयेच्च बहुश्रुतान्' ( ) इति वचनात् । ‘सद्भूतगुणाऽनुष्ठायिनो नेत्थम्भूता' इत्याशङ्कायामाह -सचित्तभोजिनः तत्राऽपि मांसाऽप्कायादिभोजिनः, तदप्रतिषेधात् ।।२७ / २८ ।।
=
तथा विशुद्धतपसोऽभावात् ज्ञानपूतस्य तपसो विरहात् तापसादयः अब्रह्मचारिणः तवेसु वा उत्तमं बंभचेरं ← ( सूत्र . १ / ६ / २३ ) इति सूत्रकृताङ्गवचनेन ब्रह्मशब्दतः विशुद्धतपोऽभिधानात् । परेषामपि सम्मतमिदम्, 'तपो ब्रह्म' ( तैत्ति. ३/२/३) इति तैत्तिरीयोपनिषदो वचनात् । तदचारिण इति तापसादयः कुतीर्थिका अब्रह्मचारिण इति भावः । भाण्डानुसारिस्नेहन्यायेन तेषां संसारविलाससंस्काराऽनुवृत्तिरेवाऽवसेया । यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित् स्नेहशेषोऽवतिष्ठते तथेदमपि भावनीयम् ।
१८९४
=
=
अज्ञानध्वस्तशक्तयः = पिण्डविशुद्ध्यादिगोचराऽज्ञानप्रतिहतगृहसन्न्याससामर्थ्याः अत एव ते स्वयम्पचा उद्दिष्टभोजिनश्च । महिषीस्नेहप्रतिबद्धभिक्षुन्यायेन ते परमार्थतत्त्वं विज्ञातुं नैवाऽर्हन्ति । तदुक्तं पञ्चदश्यां अपि अतीतेनाऽपि महिषीस्नेहेन प्रतिबन्धतः । भिक्षुस्तत्त्वं न वेदेति गाथा लोके प्रगीयते ।। ← (पं.द.९/४१ ) इति । एतेन वैराग्याद् गृहमुत्सृज्य गृहधर्मान् हृदि स्मरेत् ।
વિશેષાર્થ :- ભાવભિક્ષુની વાત કર્યા બાદ આ ગાથામાં લૌકિક તવ્યતિરિક્ત દ્રવ્યભિક્ષુની વાત ગ્રંથકારશ્રીએ જણાવેલ છે. ગાથાર્થ સ્પષ્ટ હોવાથી તેની વ્યાખ્યા ગ્રંથકારશ્રીએ કરેલ નથી. અલગ-અલગ સ્વરૂપે દ્રવ્યભિક્ષુની વાત ગ્રંથકારશ્રી હવે પછીના શ્લોકમાં ક૨શે. આ વાત ધ્યાનમાં રાખવી.(૨૭/૨૭) ગાથાર્થ :- ત્રસ અને સ્થાવર જીવની જે કાયમ હત્યા કરે, બ્રહ્મચર્ય ન પાળે, મિથ્યાદૃષ્ટિ હોય, સચિત્ત વાપરનાર હોય તથા માંગીને ભેગું કરનારા હોય તે દ્રવ્યભિક્ષુ કહેવાય. (૨૭/૨૮)
ગાથાર્થ :- વિશુદ્ધ તપ ન હોવાથી અજ્ઞાનથી જેમની શક્તિઓ નાશ પામેલ છે અને ઘરનો ત્યાગ કરવા છતાં પણ મન-વચન-કાયાથી પાપમાં જે આસક્ત છે તે યાચકો પણ દ્રવ્યભિક્ષુ કહેવાય છે.(૨૭/૨૯)
१. 'हन्तारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. 'याजणगा = याजनकाः, यज्ञकारिण' इति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org