________________
• द्रव्यभिक्षुनिरूपणम् .
१८९३ गृहिणोऽपि सदारम्भा याचमाना ऋजुं जनम् । दीनाऽन्धकृपणा ये च ते खलु द्रव्यभिक्षवः ॥२७॥ प्रपातं नानुपश्यति ।। - (म.भा.उद्योग.६५/२२ ) इति महाभारतवचनमपि यथातन्त्रमनुयोज्यम् । → अनुष्ठानेन रहिता पाठमात्रेण केवलम् । रञ्जयत्येव या लोकं किं तया शुकविद्यया ? ।। - (द.द. ३/३१) इति दर्पदलनवचनमप्यत्र संवदति । आरम्भरतत्वान्नूतनकर्मसङ्गः तेषामवगन्तव्यः, → आरंभसत्ता पगरेइ संगं - (आचा. १।१७) इति आचाराङ्गवचनात् । यथोक्तं सम्यक्त्वप्रकरणे अपि → जे संकिलिट्ठचित्ता माइठाणंमि निच्चतल्लिच्छा। आजीविगभयघत्था मूढा नो साहुणो हुंति ।। - (स.प्र.१३९) इति । ते हि तटाऽदर्शिशकुन्तशावकन्यायविषयीभूता विज्ञेयाः। यथा कथमप्यपारपारावारान्तःपतितप्रवहणकूपस्तम्भवर्ती काकादिशकुनिशावको बहिर्निजिगमिषया मुग्धत्वात् प्रवहणादुड्डीनोऽतिदूरं गतः तटमपश्यन् पश्चाद्वलित्वा प्रवहणं प्राप्तुमशक्नुवन् तत्रैव निमग्नः तथैवाऽपारभवपारावारमध्ये संयमयानपात्रवर्तिनः सुखशीलतया तद् विहाय स्वेच्छाचाररता आलोचनादिना पश्चाद् वलितुमसमर्था भवाब्धावेव निमज्जन्तीति ज्ञेयम् । तथापि तान् गुरुकर्मिकान् दृष्ट्वा तेषां निन्दाप्रद्वेषादिकं नैव कर्तव्यम्, किन्तु गुणवत्पात्रबहुमानपरतयैव भाव्यम् । तदुक्तं सम्यक्त्वप्रकरणे एव → गुरुकम्माण जियाणं असमंजसचिट्ठियाणि दवणं । निंद-पओसं मणयं पि सव्वहा संविवज्जेह ।। दूसम-कालसरूवं कम्मवसित्तं च सव्वजीवाणं । भावेह, कुणह गुरुयाऽऽयरं च गुणवंतपत्तेसु ।।
6 (स.प्र.२०५/२०६) इति ध्येयं संविग्नैः ।।२७/२६ ।।
अपारमार्थिकद्रव्यभिक्षवः द्वेधा - गृहस्थाः लिङ्गिनश्च । तत्र गृहस्थानाह- 'गृहिण' इति । गृहिणोऽपि = सकलत्रा अपि, सदारम्भाः = नित्याऽऽरम्भकाः षण्णां जीवनिकायानां, ऋजु = मुग्धप्रज्ञं अनालोचकं जनं 'भूदेवा वयं लोकहितायाऽवतीर्णा इह' इत्यादिकमभिधाय याचमानाः = अनेकप्रकारं धनधान्यादिकं आजीवनिकायै विमृगयन्तः ये दीनाऽन्धकृपणाः धिग्वर्णादयः च भिक्षामटन्ति ते खलु द्रव्यभिक्षवः = अपारमार्थिकद्रव्यभिक्षवः, द्रव्यार्थं भिक्षणशीलत्वात् । यत् साधुसामग्र्यद्वात्रिंशिकायां (द्वा.द्वा.६/ १२ भाग-२ पृ.४०५) वृत्तिभिक्षानिरूपणावसरे न प्रदर्शितं तदिह ‘यत् करभस्य पृष्ठे न माति तत्कण्ठे निबध्यते' इति न्यायेनोक्तमवसेयम् । तदुक्तं दशवैकालिकनियुक्ती → गिहिणो वि सयारंभग उज्जुपन्नं जणं विमग्गंता । जीवणिअ दीण-किविणा ते विज्जा दव्वभिक्खु त्ति ।। - (द.वै.नि.१०/३३६) इति । अत्र 'गिहिणो विसयारंभग' इति पदच्छेदेन दशवैकालिकचूर्णी अगत्स्यसिंहसूरयः 'गिहिणो वि होति पंचेदियविसयारंभगा बंभगा' (द.वै.१०/नि.३३६ चू.) इति व्याख्यातवन्तः । प्रकृते श्रीजिनदासगणिमहत्तरैस्तु → जे मूलगुणउत्तरगुणेहिं विरहिया लोगमुवजीवंति ते दव्वभिक्खवो भण्णंति । 'देवा अम्हे तिलोगनित्थारणत्थं માર્ગનું સેવન બીજા અધર્મ પામે તે રીતે કરે તો તે અપવાદ નહિ પણ ઉન્માર્ગ કહેવાય. આવા ઉન્માર્ગગામીને સાધુ કહી ન શકાય. આમ વ્યતિરેકમુખે વિધાન ઉપરની ગાથામાં ગ્રંથકારશ્રીએ કરેલ छ. (२७/२६)
ગાથાર્થ :- સઆરંભવાળા જે ગૃહસ્થો પણ સરળ લોકો પાસે ભિક્ષાયાચના કરતા હોય તથા જે ગરીબ ભિખારી અંધ અને કૃપણ લોકો યાચના કરે તે ખરેખર દ્રવ્યભિક્ષુ કહેવાય. (૨ર૭)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org