________________
१८९२
• श्रमणाऽऽभासनिरूपणम् •
द्वात्रिंशिका - २७/२६
वा । तथा प्रत्यक्षं च उपलभ्यमान एव जलगतान् अप्कायादीन् यः पिबति तत्त्वतो विनाऽऽलम्बनेन कथं नु असौ भिक्षुः ? नैव भावभिक्षुरिति ← (द.वै.नि. १० / ३५७) । 'पच्चक्खं च जलगते पूतरादि पिबति' (द.वै.अ. चू. १० / ३५७ ) इति अगस्त्यसिंहसूरयः दशवैकालिकचूर्णो । अपारमार्थिक- द्रव्यभिक्षुस्तु स स्यात्, पापस्थानेभ्योऽनिवृत्तत्वे सति भिक्षणशीलत्वादिति ध्येयम् ।
अत्र च → उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पच्चक्खं च जलगए जो पिअइ कण्णु सो साहू ? ।। ← (पं. व. १२०२, द.शु.प्र. १३८) इति पञ्चवस्तुक - दर्शनशुद्धिप्रकरणयोरपि वचनं स्मर्तव्यम् । तदुक्तं उपदेशमालायामपि दगपाणं पुप्फफलं अणेसणिज्जं गिहत्थकिच्चाई | अजया पडिसेवंति जइवेसविडंबगा नवरं ।। ← ( उप. मा. ३४९) इति । अत एव ते परानपि सद्धर्माद् भ्रंशयन्ति । तदुक्तं दर्शनप्राभृते जे दंसणेसु भट्ठा, णाणे भट्ठा, चरित्तभट्ठा य । एदे भट्ट वि भट्ठा सेसं पि जणं विणासंति ।। ← (द.प्रा. ८) इति । सम्यग् महाव्रतस्पर्शविरहान्न तेषां रसलुब्धानां मूलतः कर्मक्षयसम्भवः । तदुक्तं उत्तराध्ययनसूत्रे जो पव्वइत्ताण महव्वयाई सम्मं नो फासयति पमाया । अनिग्गहप्पा य रसेसु गिद्धे न मूलओ छिंदइ बंधणं से ।। ← ( उत्त. २० । ३९ ) । ते तत्त्वतो मार्गभ्रष्टा ज्ञातव्याः । तदुक्तं मोक्षप्राभृते जे पावमोहियमई, लिंगं घेत्तूण जिणवरिंदाणं । पावं कुणति पावा ते चत्ता मोक्खमग्गम्मि ।। ← (मो.प्रा. ७८) इति । प्रकृते च णच्चदि गायदि तावं वायं वाएदि लिंगरूवेण । सो पावमोहिदमदी तिरिक्खजोणि ण सो समणओ ।। कलहं वादं जूवा णिच्चं बहुमाणगव्विओ लिंगी । वच्चदि णरयं पाओ करमाणो लिंगिरूवेण ।। पाओपहदभावो सेवदि य अबंभु लिंगरूवेण । सो पावमोहिदमदी हिंडदि संसारकांतारे ।। दंसण - णाण-चरित्ते उवहाणे जइण लिंगरूवेण । अट्टं झायदि झाणं अनंतसंसारिओ होदि ।। जो जोडेदि विवाहं किसिकम्मवणिज्जजीवघादं च । वच्चदि णरयं पाओ करमाणो लिंगिरूवेण ।। चोराण लाउराण य जुद्ध विवादं च तिव्वकम्मेहिं । जंतेण दिव्वमणो गच्छदि लिंगी णरयवासं । । कंदप्पाइए वट्टइ करमाणो भोयणेसु रसगिद्धिं । मायी लिंगविवाई तिरिक्खजोणी ण सो समणो ।। धावदि पिंड णिमित्तं कलहं काऊण भुंजदे पिंडं । अवरुप्परूई संतो जिणमग्गि ण होइ सो समणो ।। गिण्हदि अदत्तदाणं परणिंदा वि य परोक्खदूसेहिं । जिणलिङ्गं धारंतो चोरेण व होइ सो समणो ।। उप्पडदि पदि धावदि पुढवीओ खणदि लिंगरूवेण । इरियावहं धारंतो तिरिक्खजोणी ण सो समणो ।। बंधो णिरओ संतो सस्सं खंडेदि तह य वसुहं पि । छिंददि तरुगण बहुसो तिरिक्खजोणी ण सो समणो ।। रागो करेदि णिच्चं महिलावग्गं परं च दूसेइ । दंसणणाणविहीणो तिरिक्खजोणी ण सो समणो ।। ← (लिं.प्रा. ४,६- १०,१२-१७ ) इति लिङ्गप्राभृतवचनान्यवधातव्यानि । नित्यं परि-ग्रहरतः तथा प्राणिवधे रतः । अधर्मस्यानुमन्ता च ब्रह्महन्त्यभिधीयते ।। ← (बृ.ना.पु. ४ । ३५ ) इति च बृहन्नारदपुराणवचनमप्येतदर्थाऽनुपाति द्रष्टव्यम् ।
अत एव नारदपरिव्राजकोपनिषदि सर्वतो विरक्तः चित्तशुद्धिमेत्याऽऽशाऽसूयेर्ष्याऽहङ्कारं दग्ध्वा साधनचतुष्टयसम्पन्नः संन्यस्तुमर्हति ← (ना. परि. २ / २ ) इत्युक्तम् । प्रकृते मधु पश्यति सम्मोहात्
વિશેષાર્થ :- ઉત્સર્ગ માર્ગના જે આચારો છે તે વિશિષ્ટ કોઈ કારણ આવે તો શાસ્ત્રાજ્ઞા મુજબ જયણાપૂર્વક આઘા-પાછા કરી શકાય છે. પરંતુ તેવા કોઈ નિમિત્ત વિના જ જે અપવાદ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org