________________
१८८८ • परमहंसस्वरूपद्योतनम् •
द्वात्रिंशिका-२७/२५ एतद्गुणाऽन्वितो भिक्षुर्न भिन्नस्तु विपर्ययात् । स्वर्णं कषादिशुद्धं चेद्युक्तिस्वर्णं न तत्पुनः।।२५।। परायणाः आत्मनिष्ठा – (भिक्षु.१) इत्यादिना भिक्षुकोपनिषदि प्ररूपितं, यच्चाऽपि → यथाजातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन् + (याज्ञ.१) इत्यादिना याज्ञवल्क्योपनिषदि प्रज्ञापितं, यच्चापि → अलाबुपात्रं दारुपात्रं वा काम-क्रोध-हर्ष-रोष-लोभ-मोह-दम्भ-दर्पाऽसूया-ममत्वाऽहङ्कारादीनपि त्यजेत् । वर्षासु ध्रुवशीलः अष्टौ मासानेकाकी यतिश्चरेत् + (आरु.४) इत्यादिना आरुणिकोपनिषदि दर्शितं तत् परमहंसस्वरूपमप्यत्रैव यथागमं सङ्गच्छते जिनकल्पिक-प्रतिमाप्रतिपन्न-पारिहारिकादिष्वित्यवधेयमवहितमानसैः ।
एवमेव → सर्वत्र पुण्याऽपुण्यविवर्जितो, ज्ञानाऽज्ञानमपि विहाय, शीतोष्ण-सुखदुःख-मानावमानं निर्जित्य, वासनात्रयत्यागपूर्वकं निन्दाऽनिन्दा-गर्व-मत्सर-दम्भ-दर्प-द्वेष-काम-क्रोध-लोभ-मोह-हर्षाऽमर्षाऽसूयाऽऽत्मसंरक्षणादिकं दग्ध्वा, स्ववपुः कुणपाऽऽकारमिव पश्यन्नयत्नेनाऽनियमेन लाभालाभौ समौ कृत्वा, गोवृत्त्या प्राणसन्धारणं कुर्वन् यत्प्राप्तं तेनैव निर्लोलुपः - (तुरी.१) इत्यादिरूपेण तुरीयातीतोपनिषदि यदवधूतस्वरूपमुक्तं तदपीहैव जिनप्रवचने जिनकल्पिकादिषु परमार्थत उपपद्यत इत्यपि विमुक्ताऽऽग्रहेण मध्यस्थतया विभावनीयम्. ।
यच्च परमहंसपरिव्राजकोपनिषदि → निर्ममोऽध्यात्मनिष्ठः काम-क्रोध-लोभ-मोह-मद-मात्सर्य-दम्भदर्पाऽहङ्काराऽसूया-गर्वेच्छा-द्वेष-हर्षाऽमर्ष-ममत्वादींश्च हित्वा ज्ञानवैराग्ययुक्तो वित्त-स्त्रीपराङ्मुखः शुद्धमानसः - (पर.हं.१) इत्यादिना परमहंसस्वरूपमुक्तं तदपीहाऽनुसन्धेयम् । ___यदपि च शाट्यायनीयोपनिषदि → काम-क्रोध-लोभ-मोह-दम्भ-दर्पाऽसूया-महत्त्वाऽहङ्कारादीस्तितीर्य मानाऽवमानौ निन्दा-स्तुती च वर्जयित्वा वृक्ष इव तिष्ठासेत् । छिद्यमानो न ब्रूयात् । तदैवं विद्वांस इहैवाऽमृता भवन्ति - (शा. १८) इत्येवं परिव्राजकस्वरूपमावेदितं तदपीहाऽनुयोज्यं पादपोपगमनानशनाऽवसराऽपेक्षयेत्यादिकमन्यदपि यथागमं योज्यम् ।
यदपि च नारदपरिव्राजकोपनिषदि → श्रुत्वा दृष्ट्वा न कम्पेत शोक-हर्षों त्यजेद्यतिः । अहिंसा सत्यमस्तेयब्रह्मचर्याऽपरिग्रहाः ।। अनौद्धत्यमदीनत्वं प्रसादः स्थैर्यमार्जवम् । अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्तिर्दमः शमः ।। उपेक्षा धैर्य-माधुर्ये तितिक्षा करुणा तथा । ह्रीस्तथा ज्ञान-विज्ञाने योगो लघ्वशनं धृतिः ।।
एवं स्वधर्मो विख्यातो यतीनां नियतात्मनाम् । 6 (ना.प.उ.४/१०-१३) इति यतिधर्म उक्तः सोऽपीहैव परमार्थतः सम्भवतीत्यवधेयम् ।।२७/२४ ।।
ગાથાર્થ :- ઉપરોક્ત ગુણોથી યુક્ત હોય તે ભાવભિક્ષુ બને. પરંતુ તે સિવાયના ભાવભિક્ષુ ન બની શકે. કારણ કે તેમાં ઉપરોક્ત ગુણો હોતા નથી. સોનું કષાદિ પરીક્ષાથી શુદ્ધ થયેલ હોય તો ४ ते सुपरी बने. नदी सुव तो सोनुं न ४ बने. (२७/२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org