SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ • भिक्षौ सुवर्णगुणयोजना • १८८९ 'एतदिति । एतद्गुणान्वितः = प्रागुक्ताऽखिलगुणसम्पन्नो भिक्षुः । भिन्नस्तु न, विपर्ययात् = उक्तगुणाऽभावात् यतः कषादिशुद्धं स्वर्णगुणोपेतं चेत् भवति तदा स्वर्णं भवति । ते चामीविषघातनम्, वीर्यस्तम्भनकर्तृत्वम्, मङ्गलप्रयोजनत्वम्, यथेष्टकटकादिप्रकारसम्पादकत्वम्, तप्यमानस्य प्रादक्षिण्येनाऽऽवर्तनम्, सारोपेतत्वम्, अग्निनाऽदाह्यत्वम्, अकुथनीयत्वं च ।। भिक्षुलिङ्गाऽन्वय-व्यतिरेकावाह- ‘एतदिति । 'रत्नं रत्नेनैव सह सङ्गच्छते' इति न्यायेन प्रागुक्ताऽखिलगुणसम्पन्नो भिक्षुः भवितुमर्हति । कषादिशुद्धं = कष-च्छेद-ताप-ताडनपरीक्षोत्तीर्णं स्वर्णगुणोपेतं = अनुपदमेव वक्ष्यमाणाष्टगुणसम्पन्नं भवति तदा एव स्वर्णं = परमार्थतः सुवर्णपदवाच्यं भवति, नाऽन्यथा । ते चामी सुवर्णगुणाः (१) विषघातनं = विषघातनसामर्थ्य, (२) रसायनमिव वीर्यस्तम्भनकर्तृत्वं, वय-स्स्तम्भनकर्तृत्वमिति दशवैकालिकवृत्तौ श्रीहरिभद्रसूरिः । ___ यथेष्टकटकादिप्रकारसम्पादकत्वं = विनीतत्वेनेप्सितकटक-केयूर-कुण्डलाद्याभूषणसम्पादकत्वम् । सारोपेतत्वं = गुरुत्वम् । अग्निना क्वाथ्यमानेऽपि सर्वदा अदाह्यत्वं, सारतयैव । अत एव न कदाचिदपि कुथतीति अकुथनीयत्वम् । तदुक्तं दशवैकालिकनियुक्ती → 'अज्झयणगुणी भिक्खू न सेस' इइ णो पइन्न, को हेऊ ? । अगुणत्ता, इइ हेऊ, को दिटुंतो ? सुवण्णमिव ।। (१) विसघाइ, (२) रसायण, (३) मंगलत्थ, (४) विणिए, (५) पयाहिणावत्ते (६) गुरुए (७) अडज्झऽकुत्थे (८) अट्ठ सुवण्णे गुणा भणिआ ।। 6 (द.वै.नि.१०/३५०-३५१) इति । एवं भिक्षुरपि (१) मोक्षमार्गोपदेशात् केषाञ्चिद् मोहविषं घातयति । (२) तत एव परिणताद् अमरत्वप्राप्त्या रसायनं भवति । (३) गुणतश्च मङ्गलार्थं करोति । (४) प्रकृत्या विनीतो योग्यत्वात् । (५) मोक्षमार्गानुसारित्वात् सर्वत्र प्रदक्षिणावर्तता । (६) गुरुश्च चेतसा गम्भीरत्वात् । (७) अदाह्यः क्रोधाग्निना । (८) अकुथितश्च सदोचितेन शीलभावेन । कषादिपरीक्षोत्तीर्णत्वादेतादृशगुणगणानुमितिरपि सुकरैव परेषामपि । भिक्षुस्वर्णशोधनकारिणी परीक्षा एवम्(१) विशिष्टा प्रशस्तलेश्या = कषः, (२) तथैकसारत्वं = छेदः, (३) अपकारिण्यनुकम्पा = तापः, (४) व्यसनेऽतिनिश्चलचित्तता = ताडना । तदुक्तं पञ्चवस्तुके → इअ मोहविसं घायइ सिवोवएसा रसायणं होइ । गुणओ अ मंगलत्थं कुणइ विणीओ अ जोगत्ति ।। मग्गणुसारि पयाहिण गंभीरो गुरुअओ तहा होइ । कोहग्गिणा अडज्झो, अकुत्थ सइ सीलभावेण ।। ટીકાર્થ - પૂર્વે જણાવેલ સાધુના તમામ ગુણોથી યુક્ત હોય તે જ ભાવભિક્ષુ બને. તેનાથી ભિન્ન વ્યક્તિ હોય તે ભાવભિક્ષુ ન બને. કારણ કે તેમાં ઉપરોક્ત તમામ ગુણો હોતા નથી. ખરેખર જો સોનું કષ-છેદ વગેરે પરીક્ષામાં શુદ્ધ બને તો જ સોનાના ગુણથી યુક્ત હોય. અને તો જ તે સોનું पने छे. सोनाना 208 गु९॥ २॥ भु०४५ छे. (१) विषघात, (२) वास्तमान धर्तृत्व, (3) भरालयोनत्व, (४) छित 23 को३ माभूषणोनु सं.६.१, (५) तपतुं डोय. त्यारे प्रदक्षिणावर्त ३५. 6mj. (६) सारयुतता, (७) मनिथी न पj, (८) ओडवा न ४. ३५-२२॥ १३ असव सोना १. हस्तादर्श 'एतणादिति' इत्यधिकोऽशुद्धश्च पाठः । २. हस्तादर्श 'विपर्ययाभावात्' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy