________________
१८८६ • मूर्छायाः परिग्रहत्वम् •
द्वात्रिंशिका-२७/२४ अदीनता = अशनाद्यलाभेऽपि वैक्लव्याऽभावः । आवश्यकविशुद्धिश्च = अवश्यङ्करणीययोगवुत्तो - (द.वै. ६/२१) इति । तदुक्तं ओघनिर्युक्तौ अपि → अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अप्परिग्गही त्ति भणिओ जिणेहिं तेलोक्कदंसिहिं ।। - (ओ.नि.७४५) इति प्रागप्युक्तम्(पृ.५३०)। 'परिहरंतो = धारयन्' इत्यर्थः । समयसारे अपि → अपरिग्गहो अणिच्छो भणिदी (स.सा.२१२) इति कथितम् । तत्त्वार्थसूत्रेऽपि → मूर्छा परिग्रहः - (त.सू.७/१२) इत्युक्तम् । तदुक्तं प्रशमरतो अपि → अध्यात्मविदो मूर्छा परिग्रहं वर्णयन्ति निश्चयतः - (प्र.र.१७८) इति । यथोक्तं महावीरगीतायां अपि → मूर्छा परिग्रहः प्रोक्तः - (महा.गी.१२/४) इति । द्वादशानुप्रेक्षायां → होऊण य णिस्संगो णियभावं णिग्गहित्तु सुह-दुहदं । णिइंदेण दु वट्टदि अणयारो तस्साऽकिंचण्णं ।। - (द्वा.अनु. ७९) इति यदुक्तं तदप्येतदर्थाऽनुपात्येव । इत्थं क्रोधादित्यागादस्य पूज्यताऽनाविला, → चउक्कसायावगए स पुज्जो 6 (द.वै. ९/३/१४) इति दशवैकालिकसूत्रोक्तेः । इत्थं कषायादित्यागेनाऽऽत्मगुणगणसमृद्धः सन् भिक्षुः मुक्तये कल्पते । सम्मतञ्चेदं परेषामपि । तदुक्तं संन्यासगीतायां, रामगीतायां नारदपरिव्राजकोपनिषदि च → दम्भाऽहङ्कारनिर्मुक्तो निन्दा-पैशून्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ।। - (सं.गी.६/१०८, रा.गी.१५/४२, ना.परि.३/३५) इति पूर्वोक्तं(पृ.१८४८) इहानुसन्धेयम् ।
तथा अशनाधलाभेऽपि पराऽऽक्रोशविरहाघभिव्यङ्ग्यः वैक्लव्याभावः गृहस्थहीलनाधकरणञ्च, → सयणासणपाणभोयणं विविहं खाइमं साइमं परेसिं । अदए पडिसेहिए नियंठे जे तत्थ न पओसइ स भिक्खू ।। 6 (उत्त.१५/११) इति उत्तराध्ययनवचनावगमात्, → लाभुत्ति न मज्जिज्जा, अलाभु त्ति न सोइज्जा 6 (आचा.१/२/५) इति आचाराङ्गसूत्रोक्तिप्रयोजनोपलम्भात्, → अदीणो वित्तिमेसेज्जा, न विसीएज्ज पंडिए - (द.वै.५/२/२६) इति दशवैकालिकसूत्रोहनात्, → न दीणो न गम्वितो - (आ.चू.१/२/५) इति आचाराङ्गचूर्णितात्पर्योपलम्भात्, → अज्जेवाहं न लब्भामि अवि लाभो सुए सिया । जो एवं पडिसंचिक्खे अलाभो तं न तज्जए ।। 6 (उत्त.२/३१) इति उत्तराध्ययनसूत्रैदम्पर्यार्थविभावनात्, → लाभेसु अलाभेसु य अविवन्नो जस्स होइ मुहवण्णो । अप्पिच्छं संतुटुं सीसं कुसला पसंसंति ।। 6 (चं.वे.३९) इति चन्द्रकवेध्यकप्रकीर्णकवचनाऽऽशयप्रतिपत्तेः, → लाभम्मि जे ण सुमणो अलाभे णेव दुम्मणो । से हु सेढे मणुस्साणं देवाणं व सयक्कउ ।। 6 (ऋ.भा.४३ ।१) इति ऋषिभाषितवचनाऽभिप्रायाऽवलम्बनेन, → श्रद्धां पुरस्कृत्य विनिर्गतो यां तामेव सम्यक् परिपालयेद् यः । सिंहोत्थितः सिंहविहारचारी समाहितोऽसौ न विषादमेति ।। - (वै.क.ल. ११६४) इति वैराग्यकल्पलतावचनतात्पर्यार्थपरिणमनात्, → सव्वे पाणा न हीलियव्वा, न निंदियव्वा -- (प्र.व्या.२।६।२३) इति प्रश्नव्याकरणसूत्रभावार्थसंवेदनाच्च । प्रकृते → अलाभे न विषादी स्यात् लाभे चैव न हर्षयेत् + (व.स्मृ.१/१०/१६,ना.परि.५/१३,मनु.६/५७,सं.गी.८/५३) इति वशिष्ठस्मृतिनारदपरिव्राजकोपनिषद्-मनुस्मृति-संन्यासगीतावचनमपि योज्यमुदारनीत्या मध्यस्थबुद्ध्या च ।
तथा → अलं कुसलस्स पमाएणं - (आचा.१।२।४।८५) इति आचाराङ्गसूत्रपरिणतहृदयतया → अप्पमत्ते जए निच्चं - (द.वै. ८।१६) इति दशवैकालिकसूत्राऽऽशयपरिणमनेन च अवश्यङ्करणीय= નિર્લોભતા. ગોચરી-પાણી વગેરે ન મળે તો પણ બેબાકળા ન થવું તે અદીનતા કહેવાય. અવશ્ય કર્તવ્ય એવા આવશ્યક યોગોને નિરતિચારપણે કરવા તે આવશ્યક-વિશુદ્ધિ કહેવાય. આ ભાવભિક્ષુના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org