________________
• साधुव्युत्पत्तिनिमित्तविवरणम् •
१८८०
चैव । परिव्राजकः = पापवर्जकः । संयतः
संयमवान् ।। २१ ।।
साधुर्लक्षश्च तीरार्थी निर्ग्रन्थः श्रमणस्तथा । इत्यादीन्यभिधानानि गुणभाजां महात्मनाम् ।।२२।। साधुरिति। निर्वाणसाधकयोगसाधनात् साधुः । स्वजनादिषु स्नेहविरहाद् ऋ (लू) क्षश्च । तीरार्थी इति महाभारतवचनं च यथातन्त्रमनुयोज्यम् । पूर्वं ( द्वा.द्वा. १५/३२ पृ.१०८३) सम्यग्दृष्टिद्वात्रिंशिकाविवरणे यानि ब्राह्मणलक्षणानि दर्शितानि तानीहाऽनुसन्धेयानि ।
=
=
द्वात्रिंशिका -२७/२२
पापवर्जकः कार्त्स्न्येन द्रव्य-भावाऽवद्यपरित्यागी, प्रागुक्तेन ( द्वा. द्वा. ६ / ५ भाग - २ पृ.३८५) तत्त्वसंवेदनज्ञानेन तत्स्वरूपहेतु-फलावगमात् । नारदपरिव्राजकोपनिषदि तु परेणैवात्मनश्चापि परस्यैवाऽऽत्मना तथा । अभयं समवाप्नोति स परिव्राडिति स्मृतिः ।। ← ( ना. परि. ३/१) इत्येवं परिव्राजकनिरुक्तिरुपदर्शितेत्यवधेयम् । अन्यत्र च परिबोधात् परिच्छेदात् परिपूर्णाऽवलोकनात् । परिपूर्णफलत्वाच्च परिव्राजक उच्यते । । ← ( इत्येवं परिव्राजकोक्तिरावेदितेत्यपि न विस्मर्तव्यम् । सम् = एकीभावेन अहिंसादिषु यतः = प्रयत्नवान् संयतः = संयमवान् । संयमलक्षणं तु पञ्चसङ्ग्रहे → वय-समिदि-कसायाणं दंडाणं तह इंदियाण पंचन्हं । धारण- पालण-निग्गह-चाय-जओ संजमो भणिओ ।। ← (पं.सं. १ । १२७) इत्येवं भणितम् ।।२७ / २१ ।
)
तथा 'साधुरिति । साधुः निर्वाणसाधकयोगसाधनात् = मोक्षसाधकत्वेन गुप्तीन्द्रियनिग्रह-ब्रह्मचर्यादीनां साधनात् । श्रीहरिभद्रसूरिभिरपि दशवैकालिकवृत्तौ साधयति सम्यग्दर्शनादियोगैरपवर्गमिति साधुः ← (द.वै.१ ।५ वृ.) इत्येवमुक्तम् । तदुक्तं दशवैकालिकसूत्रे नाण-दंसणसंपन्नं संजमे य तवे रयं । एवं गुणसमाउत्तं संजय साहुमालवे ।। ← (द.वै. सू. ७ / ४९) इति । प्रशमरतिवृत्तौ अपि हरिभद्रसूरिभिः → ज्ञान - दर्शन - चारित्रलक्षणाभिः पौरुषेयाभिः शक्तिभिः मोक्षं साधयन्तीति साधवः ← (प्रशम.२ वृत्ति) इत्येवं साधुनिरुक्तिर्व्याकृता । तदुक्तं पञ्चसूत्रवृत्तौ अपि सम्यग्दर्शनादिभिः सिद्धिं साधयन्तीति साधवः ← ( पं. सू. १ साहूसरणं - वृत्ति) इति । तदुक्तं दशवैकालिकनिर्युक्तो अपि प्रथमाध्ययने → कार्य वायं च मणं च इंदियाइं च पंच दमयंति । धारेति बंभचेरं संयमयंति कसाए य ।। जं च तवे उज्जुत्ता तेणेसिं साहुलक्खणं पुण्णं । ← ( द. वै.नि. १/३५-३६ ) इति ।
तथा स्वजनादिषु = व्यवहारतो जननी- जनक-बन्धु- कलत्रप्रभृतिषु तदितरेषु च परिचितेषु अनित्यत्वाऽशरणत्वाऽन्यत्वादिभावनापरिपाकवशेन चूलनी - ब्रह्मदत्त-श्रेणिक कुणिक-भरत- बाहुबलि-सूर्यकान्ता- प्रदेशिप्रमुखोदाहरणश्रवणसञ्जनितवैराग्यभावनाऽतिशयेन च स्नेहविरहात् = स्नेहराग- कामरागादिशून्यत्वात् ऋक्षः = लूक्षः । भवार्णवस्य तीरेणाऽर्थोऽस्येति तीरार्थी । यद्वा तीरस्थः सम्यक्त्वादिप्राप्तेः संसारपरिमाणात् । (૨૨) પાપનું ચારે બાજુથી વર્જન કરવાના લીધે સાધુ પરિવ્રાજક પણ કહેવાય છે. (૨૩) સંયમી હોવાના લીધે સાધુ સંયત પણ કહેવાય છે. (૨૭/૨૧)
ગાથાર્થ :- સાધુ, લૂક્ષ, તીરાર્થી, નિગ્રન્થ તથા શ્રમણ ઈત્યાદિ ગુણવાન મહાત્માના નામો છે. (२७/२२)
ટીકાર્થ :- (૨૪) મોક્ષ સાધક યોગોની સાધના કરવાથી તે મહાત્મા સાધુ કહેવાય છે. (૨૫) સ્વજન વગેરે ઉપર સ્નેહ ન હોવાના કારણે સાધુ ઋક્ષ-લૂક્ષ કહેવાય છે. (૨૬) ભવસાગરના સામા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=