________________
• व्यवहारिक-नैश्चयिकमुमुक्षा •
१८७९ तथा चरकः = प्रागुक्तार्थः। पाषण्डी = पाशाड् डीनः। ब्राह्मणश्चैव = विशुद्धब्रह्मचारी जयमाणगा सुविहिया एरिसिया हुति अणगारा ।। - (आ.नि. १०५) इत्येवं आचाराङ्गनियुक्ती भावाऽनगारलक्षणमावेदितम् । अन्यथा तु नाममात्रतोऽनगारत्वम्, यथोक्तं आचाराङ्गनियुक्ती एव → पवयंति य अणगारा, ण य तेहि गुणेहिं जेहि अणगारा । पुढविं विहिंसमाणा न हु, ते वायाहि अणगारा ।। - (आ.नि.९९) इति भावनीयम् । ___ हिंसादिविराधनागोचरव्यावहारिकमुमुक्षा-काम-क्रोधादिविराधकभावगोचरनैश्चयिकमुमुक्षातिशयेन पाशात् = द्रव्य-भावबन्धनाद् डीनः = उड्डीनः = पाषण्डी। एतेन → पापाड्डीनः = पंडितः - (उत्त.चू. १/३७) इति उत्तराध्ययनचूर्णिवचनमपि व्याख्यातम् । यद्वा → पाखण्डं = व्रतं, तदस्यास्तीति पाखण्डी। उक्तञ्च ‘पाखण्डं व्रतमित्याहुस्तद् यस्याऽस्त्यमलं भुवि । स पाखण्डी वदन्त्यन्त्ये कर्मपाशाद् विनिर्गतम् ।।' _ (द.वै.अ.२/नि.१५८ वृ.) इति दशवकालिकद्वितीयाध्ययनवृत्तौ श्रीहरिभद्रसूरिः।
विशुद्धब्रह्मचारी = मनसाऽप्यप्रविचारी, मोहक्षोभविहीनविशुद्धचिदानन्दैकमूर्त्तिके स्वात्मन्येवाऽभ्यासाऽतिशयेन संलीनत्वात् । प्रकृते च → समयाए समणो होइ, बम्भचेरेण बम्भणो । नाणेण य मुणी होइ, तवेणं होइ तावसो ।। 6 (उत्त. २५/३२) इति उत्तराध्ययनसूक्तिरप्यनुसन्धेया ।
→ कथञ्च, भिक्खवे, भिक्खु ब्राह्मणो होति ? बाहितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका पोनोब्भविका, सदरा दुक्खविपाका, आयतिं जाति-जरा-मरणिया । एवं खो, भिक्खवे, भिक्खु ब्राह्मणो होति - (म.नि. १/४/९/४३४, पृ.३५१) इत्येवं मज्झिमनिकाये महाश्वपुरसूत्रे या ब्राह्मणनिरुक्तिर्दर्शिता, या च दीघनिकाये → अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानं च खया अनासवं चेतोविमुत्तिं पञ्जाविमुत्तिं दिवेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरति । अयं वुज्जति कस्सप ! भिक्खु समणो इति पि ब्राह्मणो इति पि - (दी.नि. १।८।३९९) इत्येवं श्रमण-ब्राह्मणव्याख्या दर्शिता, या च → बाहितपापो ति ब्राह्मणो समचरिया समणो ति वुच्चति । पब्बाजयमत्तनो मलं तस्मा पब्बजितो ति वुच्चति ।। - (ध.प.ब्राह्मणवर्ग-६) इत्येवं धम्मपदे ब्राह्मणादिपदनिरुक्तिर्दर्शिता साऽपीहाऽनुसन्धेया जिनसमयाऽनुसारेण प्राज्ञैः । प्रकृते च ब्रह्मचर्यसत्त्वे एव तात्त्विकसाधुत्व-श्रमणत्वाद्युपपत्तिः, → स एव भिक्खू जो सुद्धं चरति बंभचेरं, जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू - (प्र.व्या.२।९।२७) इति पूर्वोक्त(पृ.१८४४) प्रश्नव्याकरणोक्तिप्रामाण्यात् । सूत्रकृताङ्गे तु → विरतसव्वपावकम्मे पेज्ज-दोस-कलह-अब्भक्खाण-पेसुन्न-परपरिवाय-अरतिरति-मायामोसमिच्छादसणसल्ले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे ति वच्चे - (सू. कृ. १।१६।६३४) इत्येवं रूढितो ब्राह्मणलक्षणमावेदितमित्यवधेयम् । → क्षमा दमो दया दानं, सत्यशीलं धृतिघृणा । विद्याविज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ।। सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म, एतद् ब्राह्मणलक्षणम् ।। - (ध.स्मृ.२०,२१) इति धर्मस्मृतिवचनं, → सत्यं दानमथाऽद्रोह आनृशंस्यं क्षमा घृणा । तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ।। - (म.भा.शांति.१८८/४) સાધુ અણગાર કહેવાય છે. (૧૯) સાધુનું નામ ચરક પણ છે. ચરક શબ્દનો અર્થ તો પૂર્વ ૧૮ મી
थाम उदा छे. (२०) पाशमाथी = धनमाथी यन ४२ गयेत होवाथी साधु पाषं (=4131) પણ કહેવાય છે. (૨૧) વિશુદ્ધ બ્રહ્મચર્ય પાળવાના કારણે સાધુ બ્રાહ્મણ કહેવાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org