________________
• नानाविधानि पण्डितलक्षणानि •
१८७७ मायारहितः = ऋजुः । अपवर्गमार्गस्य प्ररूपकः = प्रज्ञापकः । भिक्षुः प्रागुक्तार्थः । विद्वान् = पण्डितः । विरतो = विषयसुखनिवृत्तः ।
बौद्धानामपि सम्मतमिदम्, → यो मुनाति उभे लोके मुनि तेन पवुच्चति - (म.नि.पा.१/ २/१४) इति महानिदेसपालिवचनात् । इयञ्च मुनिपदनिरुक्तिः । लक्षणापेक्षया तु बौद्धमते एषणाप्रसुप्तस्यैव मुनित्वं, तदुक्तं मज्झिमनिकाये → एसनापसुत्तो मुनी - (म.नि.महासिंहनाद १/२/२/१५७) इति । मज्झिमनिकाये एव ब्रह्मायुसूत्रे → पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति । अथा जातिक्खयं पत्तो, अभिञ्जा वोसितो मुनि ।। 6 (म.नि.२/५/१/३९४, पृ.३५३) इत्युक्तम् । मौनस्य जैनमते सम्यक्त्वरूपता बौद्धमते च ज्ञानरूपता । तदुक्तं आचाराङ्गे → जं मोणं ति पासहा तं सम्मं ति पासहा । जं सम्मं ति पासहा तं मोणं ति पासहा 6 (आचा.५/३/१५६) इति । बौद्धमताऽनुसारेण तु → मोनं वुच्चति आणं - (म.नि.पा.१/२/१४) इति महानिदेसपालिवचनम् । निश्चयनयतस्तु सम्यग्ज्ञानसम्यक्त्वचारित्राऽपराभिधानमौनानामभेद एवेत्यादिकमत्रोहनीयं यथागमं तन्त्रविशारदैः । ___ गृहस्थाश्रमाद्यपेक्षया उत्तमाश्रमी, प्रयत्नवान् वा = निरन्तरविशुद्धाऽन्तरङ्गमोक्षपुरुषार्थवान् वा = यतिः ।
अपवर्गमार्गस्य निश्चय-व्यवहार-ज्ञान-क्रिया-प्रवृत्ति-निवृत्त्युत्सर्गाऽपवादाद्यनुविद्धस्य श्रोतृभूमिकाऽनुरूपस्य प्ररूपकः करुणाबुद्ध्या इति प्रज्ञापकः ।।
पण्डित इति। पण्डितलक्षणं तु → नाऽप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ।। (म.भा.उद्योगपर्व-३३/२३, हितो. १/६२) इति महाभारते हितोपदेशे चोक्तं, यद्वा → क्रोधो हर्षश्च दर्पश्च हीस्तम्भो मान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।। न हृष्यत्यात्मसन्माने नाऽवमानेन तप्यते । गाङ्गो हृद इवाऽक्षोभ्यो यः स पण्डित उच्यते ।। - (म.भा.उद्योगपर्व-३३/१७-२६) इति महाभारतदर्शितमिहानुसन्धेयम् । तदुक्तं चाणक्यराजनीतिशास्त्रे अपि → न प्रहृष्यति सन्मान वमानैः प्रकुप्यते । गाङ्गोदकमिवाऽक्षोभ्यो यः स पण्डित उच्यते ।। (चा.रा.नी. ६/४४) इति । प्रकृते → यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।। (भ.गी.४/१९) इति भगवद्गीतावचनं, → मातृवत्परदारेषु परद्रव्येषु लोष्टवत् | आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ।। 6 (चा.श.५) इति चाणक्यशतकवचनं, → अर्थं महान्तमासाद्य विद्यामैश्चर्यमेव च । विचारयत्यसमुन्नद्धो यः स पण्डित उच्यते ।। - (नी.क.त. ९/१९) इति नीतिकल्पतरुवचनं च यथागममनुयोज्यं स्वपरसमयविशारदैः ।
(c) साधु भायारहित वान। २) *-स२५ वाय छे. (१०) भोक्षमानी शापना = પ્રરૂપણા કરવાના કારણે સાધુને પ્રજ્ઞાપક પણ કહે છે. (૧૧) ભિક્ષશબ્દનો અર્થ તો પૂર્વે (બત્રીસી २७/१७ १.१८६८) बतावेद ४ . (१२) साधु पंडित डोवाथी विद्वान ५९ उपाय छे. (१३) વિષય સુખથી નિવૃત્ત = વિરતિવાળા હોવાથી સાધુ વિરત પણ કહેવાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org