SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ • मुनिस्वरूपद्योतनम् • द्वात्रिंशिका - २७/२० यतिः । रागद्वेषरहितत्वाद् द्रव्यम् । क्षमां करोतीति क्षान्तः । ' दाम्यतीन्द्रियाणीति' दान्तः • मन्यते जगतस्त्रिकालाऽवस्थामिति मुनिः । उत्तमाऽऽश्रमी प्रयत्नवान् वा = दशवेकालिकवृत्तौ श्रीहरिभद्रसूरयः द्रवति गच्छति तांस्तान् ज्ञानादिप्रकारानिति द्रव्यमिति व्युत्पत्तेः राग-द्वेषरहितत्वाद् द्रव्यम् ← ( द.वै.अ.२/नि. १५८ हारि.वृ.) इत्याहुः । एतेन नो सक्का रूवमदङ्कं चक्खुविसयमागयं । राग-दोसा उ जे तत्थ ते भिक्खू परिवज्जए ।। ← ( आचा.२/३/ १५/१३२) इति पूर्वोक्तं (पृ. १६३६) आचाराङ्गवचनं व्याख्यातम् । यद्वा द्रवः संयमः स विद्यते यस्याऽसौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्' (आचा.१/४/४/१३७) इति आचाराङ्गवृत्तौ शीलाङ्काचार्यः । यद्वा गुणाणमासओ दव्वं ← (उत्त. २८ । ६) इति उत्तराध्ययनसूत्रोक्त्यनुसारेण प्रकृते रागादिक्षयाविनाभावि - ज्ञानादिगुणाश्रयत्वाद् द्रव्यमिति बोध्यम् । दवए दुयए दोरवयवो विगारो गुणा संदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ← (वि. आ.भा. २८) इति विशेषावश्यकभाष्यवचनमप्यत्र यथागमं योज्यं प्राज्ञैः । मैत्र्यादिभावपरिकर्मणा क्षाम्यति क्षान्तः = क्रोधविजयी, बहुलवचनात् कर्तरि निष्ठा । एवं क्षमां करोतीति १८७६ = = = अप्पा चेव दमेयव्वो अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ अस्सिं लोए परत्थ य 11 वरं मे अप्पा दंतो संजमेण तवेण य । माऽहं परेहिं दम्मंतो बंधणेहिं वहेहि य ।। ← (उत्त.१/१५-१६) इति उत्तराध्ययनसूत्रवचनभाविताऽन्तःकरणतयाऽसङ्गसाक्षिभावाऽभ्यासेन इन्द्रि - याणि कर्मोदयमात्रतः प्रवृत्तानि निवृत्तानि वा दाम्यतीति दान्तः । प्रकृते क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । इन्द्रियाऽभिजयो धैर्यं मार्दवं हीरचापलम् ।। अकार्पण्यमसम्भ्रमः सन्तोषः श्रद्दधानता । एतानि यस्य राजेन्द्र ! स दान्तः पुरुषः स्मृतः ।। ← (म.भा.वनपर्व-६३/१५-१६ ) इति महाभारतदर्शितं दान्तलक्षणं यथागमं योज्यम् । दमेन दान्ताः किल्बिषमवधून्वन्ति दमेन ब्रह्मचारिणः स्वरगच्छन् । दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्माद् दमः परमं वदन्ति ।। ← (तै. आ. १०/८७) इति तैत्तिरीयाऽऽरण्यकवचनमपि दमफलतया यथागममत्र योज्यम् । |जगतः = पञ्चास्तिकायमयस्य लोकस्य त्रिकालाऽवस्थां = उत्पाद-व्यय- ध्रौव्याऽनुविद्धाऽतीताऽनागतवर्तमानदशां यथावस्थितस्व-परविषयविभागेन मन्यते = मुनिः । तदुक्तं आचाराङ्गे पण्णाणेहिं परिजाणति लोगं मुणीति वच्चे ← ( आचा. १।३ 19 19०७) इति । एतदनुसारेण ग्रन्थकृताऽपि ज्ञानसारे मन्यते यो जगत्तत्त्वं स मुनिः परिकीर्तितः ← (ज्ञा.सा. १३/१) इति कथितम् । एतादृशमौनभावसमाश्रयणेनैवाऽस्य कर्मक्षपकत्वमवसेयम् । तदुक्तं आचाराङ्गसूत्रे मुणी मोणं समायाय धुणे कम्म सरीरगं ← ( आचा. १/२/६/९९) इति । (4) क्षमा हरे ते क्षांत म्हेवाय साधु क्षमा डरनार होवाथी 'शांत' परा उहेवाय छे. (६) साधु ઈન્દ્રિયોનું દમન કરે છે. માટે દાન્ત કહેવાય છે. (૭) સાધુ જગતની ત્રિકાલ અવસ્થાને માને છે. માટે મુનિ કહેવાય છે. (૮) ગૃહસ્થાશ્રમ વગેરેની અપેક્ષાએ ઉત્તમ આશ્રમવાળા (સંન્યાસાશ્રમી) હોવાથી સાધુને યતિ પણ કહેવાય છે. અથવા સંયમમાં યતના-યત્ન કરનાર હોવાથી યતિ કહેવાય છે. १. हस्तादर्शे 'द्रष्टम्' इत्यशुद्धः पाठः । २ हस्तादर्शे ..न्द्रियादीनीति' इति पाठः । •..• चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy