________________
• नानाप्रकारेण सप्तदशसंयमनिरूपणम् •
१८७३
यतमानो भावतस्तथा 'तथा गुणेषु यतिर्भवेत् । भवक्षयात् = संसारनाशाद् भवान्तश्च । संयमं सप्तदशप्रकारं चरन् चरकः ।। १८ ।।
इयञ्च पदव्युत्पत्तिनिमित्त - प्रवृत्तिनिमित्तयोजनाऽग्रेऽपि सर्वत्र स्वयमेव कार्या । निशीथचूर्णी भिदिर् विदारणे, क्षुध इति कर्मण आख्या, तं भिनत्तीति भिक्षुः । भिक्षणशीलो वा भिक्षुः । भिक्षाभोगी वा भिक्षुः ← (नि.चू.उद्दे. २०/भाग-४ / पृष्ठ २७१- भा. ६२७२ ) इत्येवं त्रिधा भिक्षुपदनिरुक्तमाविष्कृतम् । सूत्रकृताङ्गे तु एत्थ वि भिक्खू अणुन्नए नाऽवणए णामए दंते दविए वोसट्टकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पंजोग-सुद्धदाणे उवट्ठितें ठितप्पा संखाए परदत्तभोई भिक्खु त्ति वच्चे ← (सू. कृ. १।१६ ।६३६) इत्येवं रूढितो भिक्षुलक्षणमावेदितमित्यवधेयम् । प्रकृते शुद्धाचारद्विजाऽन्नञ्च भुङ्क्ते लोभादिवर्जितः । किन्तु किञ्चिन्न याचेत स संन्यासीति कीर्त्तितः ।। अयाचितोपस्थितञ्च मिष्टाऽमिष्टञ्च भुक्तवान् । भक्षणार्थी न याचेत स संन्यासीति कीर्त्तितः ।। यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यक् स दमसम्पन्नः स योगी भिक्षुरुच्यते । ← (सं.गी.६/८५-८६-८९) इति संन्यासगीतावचनमपि यथागममनुयोज्यम् । बौद्धामतानुसारेण भिक्षुनिरुक्तिः विसुद्धिमग्गे संसारे भयं इक्खतीति भिक्खू ← (वि.म. ) इत्येवमुक्ता । अनेनैव प्रसङ्गेन गो-बलिवर्दन्यायेन तत्पर्यायाणां निरुक्तमाह- 'यतमान' इति । भावतः = श्रद्धासंवेग-निर्वेदादिभावतः तथातथागुणेषु स्वाध्याय - गुरुवैयावृत्त्य तपो - विनय-प्रतिक्रमण-प्रतिलेखन-प्रमार्जनादिषु आत्मरमणता-गुरुसमर्पण भोजनाऽनासक्ति नम्रता- पापजुगुप्सा-मृदुता-करुणादिगुणोपधायकेषु यतमानः स्वशक्तिमनिगूहमान एव यतिर्भवेत्, नाऽन्यथा । तदुक्तं निशीथभाष्ये भिदंतो वा वि खुधं भिक्खू, जयमाणओ जई होइ । तव -संजमे तवस्सी भवं खवेंतो भवंतो त्ति ।। ← (नि. भा. ६२८१ ) इति ।
→ पुढवि-दग-अगणि-मारुय- वणस्सई - बि-ति-चउ-पणिदि - अज्जीवे । पेहोपेह-पम्मज्जण-परिट्ठवण-मणोवइ-काए ।। ← इति आवश्यकनिर्युक्तौ ( आव. ४- पगा. स.१७) दशवैकालिकनिर्युक्तौ (द.वै.नि. १/४६) व्यवहारसूत्रभाष्ये (व्य. भा. उ. ३/१३३) च प्रदर्शितं सप्तदशप्रकारं संयमं यद्वा आसवदारनिरोहो जमिंदिय-कसाय-दंडनिग्गहओ । पेहातिजोगकरणं तं सव्वं संजमो नेओ ।। ← (वि.वि. ११ / १० ) इति यतिधर्मविंशिकायामुपदर्शितं संयमं यद्वा पंचसमियो तिगुत्तो पंचेंदियसंवुडो किसाओ । दंसणणाणसमग्गो समणो सो संजयो भणियो ।। ← (प्र. सार. ३/४०) इति प्रवचनसारदर्शितं सप्तदशप्रकारं संयमं चरन् चरक इति भण्यते ।। २७/१८ |
તેવા ગુણોને વિશે ભાવથી યતના-યત્ન કરે તે યતિ બને. ભવનો અન્ન કરવાથી ભવાન્ત થાય. તથા ૧૭ પ્રકારના સંયમને ચરે-આચરે તે ચરક થાય. (૨૭/૧૮)
विशेषार्थ : :- સાધુના જીવનના અલગ-અલગ આચાર, ગુણ, ફળને લક્ષમાં રાખીને દશવૈકાલિકસૂત્રની
१. मुद्रितप्रतौ ' तथा ' पदं सकृदेव दृश्यते इति त्रुटितस्तत्र पाठः ।
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org