________________
१८७२
भिक्षुपदनिमित्तद्वयविचारणम्
द्वात्रिंशिका - २७/१८
भिक्षामात्रेण वा भिक्षुर्यतमानो यतिर्भवेत् । भवक्षयाद् भवान्तश्च चरकः संयमं चरन् । । १८ ।। भिक्षेति भिक्षामात्रेण वा = सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः ।
•
ब्राह्मण-परिव्राजकन्यायेन प्रकारान्तरेण साम्प्रतमेतद्व्युत्पत्तिमाह- 'भिक्षे 'ति । सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन = हनन-पचन-क्रयणादिनवकोटिपरिशुद्धभिक्षाऽऽजीविकामात्रेण भिक्षुः ‘भण्यत' इत्यत्राऽप्यन्वेति । रक्तपटादिव्यवच्छेदार्थं मात्रपदप्रयोगः । न हि ते परिशुद्धभिक्षामात्रवृत्तिका भवन्ति । यदाऽऽधाकर्मिकमौशिकमभ्याहृतं वा न लभन्ते तदा तेऽनन्यगतिकतया भिक्षामटन्तीति ते न भिक्षव इति यावत् ज्ञेयम् । इयमत्र भावना द्वे शब्दस्य निमित्ते व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तञ्च । यथा गोशब्दस्य व्युत्पत्तिनिमित्तं गमनक्रिया, 'गच्छतीति गौः' इति व्युत्पादनात् । तेन च गमनेनैकार्थसमवायितया यदुपलक्षितं सास्नादिमत्त्वं तत् गोपदप्रवृत्तिनिमित्तम् । ततश्च गच्छति अगच्छति वा गोपिण्डे गोशब्दः प्रवर्तते, उभयाऽवस्थायां गोपदप्रवृत्तिनिमित्तभावात् । अधादौ तु नैव प्रवर्तते, यथोक्तस्वरूपस्य प्रवृत्तिनिमित्तस्य विरहात् ।
एवमत्रापि भिक्षुशब्दस्य द्वे निमित्ते । तत्र भिक्षणं व्युत्पत्तिनिमित्तम्, “भिक्षत इत्येवंशीलो भिक्षुः ' इति व्युत्पादनात् । तेन च भिक्षणेनैकार्थसमवायितया यदुपलक्षितं इहपरलोकाऽऽशंसाविप्रमुक्ततया चरणकरणसप्ततिव्यवस्थितत्वं तद् भिक्षुशब्दप्रवृत्तिनिमित्तम् । तेन भिक्षमाणेऽभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्तते, उभयाऽवस्थायां भिक्षुपदप्रवृत्तिनिमित्तसद्भावात् । रक्तपटादिषु च न प्रवर्तते, नवकोट्यपरिशुद्धाऽन्नभोजितया तेषु यथोक्तरूपस्य प्रवृत्तिनिमित्तस्य विरहात् । यथा पिशिताऽलाभेन यो निः पिशितस्तेनो ब्रूयात् 'यावन्न मांसं लभेऽहं तावन्निः पिशितव्रती 'ति । ततश्चोद्गमादिदोषोपेतपिण्ड- सचित्तजल-कन्दमूलादिभोजित्वान्न ते भिक्षमाणा अपि भावभिक्षुपदवाच्या इति भावः । तदुक्तं साक्षेप-परिहारं निशीथभाष्ये व्यवहारसूत्रभाष्ये च
भिक्खसीलो भिक्खू, अण्णे वि, न ते, अणण्णवित्तिता । निप्पिसिएणं नायं पिसियाऽलंभेण सेसा उ ।। अविहिंसा बंभयारी पोसहिय अमज्जमंसिया चोरा । सति लंभे परिच्चाई होंति तदक्खा, न सेसा उ ।। अहवा एसणासुद्धं जहा गिण्हंति साहुणो । भिक्खं नेव कुलिंगत्था भिक्खजीवी वि ते जदि ।। दगमुद्देसियं चेव कंद-मूल-फलाणि य । सयं गाहा परातो य गिण्हंता कहं भिक्खुणो ? ।। अचित्ता एसणिज्जा य भिक्खा काले परिक्खिया । जहालद्धा, विसुद्धा य एसा वित्तीय भिक्खुणो ।। ← (नि.भा.६२७५-७७-७९, व्य. भा. उद्दे. १/६-१० ) इति ।
-
ઉપર નયલતા ટીકામાં દષ્ટિપાત કરવો. (૨૭/૧૭)
સાધુના અન્ય પર્યાયવાચી શબ્દોને ગ્રંથકારશ્રી જણાવે છે.
Jain Education International
•
* સાધુના અન્યવિધ નામો ઃ
ગાથાર્થ :- અથવા ભિક્ષામાત્રથી ભિક્ષુ થાય. યતના કરે તે યતિ બને. સંસારનો ક્ષય થવાથી लवान्त उहेवाय संयमने भरता आयरता थर थाय. (२७/१८)
ટીકાર્થ :- સર્વ દોષથી શુદ્ધ
રહિત = નિર્દોષ ભિક્ષાવૃત્તિથી જીવન જીવે તે ભિક્ષુ બને. તેવા
For Private & Personal Use Only
www.jainelibrary.org
=