________________
१८७०
चतुर्विधभिक्षुस्वरूपकथनम्
द्वात्रिंशिका - २७/१७
ननु किं सन्त्यन्ये भिक्षवः, यद्व्यवच्छेदाय 'भावे 'ति प्रयुक्तम् ?' उच्यते, सन्ति चत्वारो भिक्षवः, नामादिभेदेन । तदुक्तं निशीथभाष्ये व्यवहारसूत्रभाष्ये दशवैकालिकनिर्युक्तौ च नामं ठवणाभिक्खू दव्वभिक्खू य भावभिक्खू य ← (नि.भा.६२७४ व्य. भा. उद्दे.१/५-द.वै.नि.१०/३३३) इति । तथाहि (१) यस्य पुरुषस्य 'भिक्षुः' इति नाम स नाम्ना भिक्षुः = नामभिक्षुः । यदि वा नाम - नामवतोरभेदोपचारात् नाम चासौ भिक्षुश्च नामभिक्षुरिति व्युत्पत्तेः नामभिक्षुः । (२) स्थापनया = आकारमात्रेण असत्कल्पनया भिक्षुः स्थापनाभिक्षुः । चित्रकर्मादिलिखितो बुद्धिकल्पितो वाऽक्षादिः । (३) द्रव्यभिक्षुः द्विधा आगमतो नोआगमतश्च । तत्राऽऽगमतो ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्यमिति (अनु.सू.१३ वृ.) अनुयोगद्वारसूत्रवृत्तिवचनात् । नोआगमतश्च त्रिविधः ज्ञशरीरं भव्यशरीरं तद्व्यतिरिक्तश्चेति । तत्र भिक्षुपदार्थज्ञस्य यत् शरीरं व्यपगतजीवितं तत् ज्ञशरीरं द्रव्यभिक्षुः नोआगमतः, भूतभावत्वात् । यस्तु बालको नेदानीं भिक्षुशब्दार्थमवबुध्यते अथ चाऽऽयत्यां तेनैव शरीरेण भोत्स्यते तस्य यत् शरीरं तद् भव्यशरीरं द्रव्य-भिक्षुः नोआगमतः, भाविभावत्वात् ।
तद्व्यतिरिक्तश्च त्रिधा । तद्यथा एकभविकः, बद्धायुष्कः, अभिमुखनामगोत्रश्च । तत्र एकभविको नाम यो नैरयिकः तिर्यङ् मनुष्यो देवो वाऽनन्तरभवे भिक्षुर्भावी स तदानीं नैरयिकादिदशायामेकभविको ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यभिक्षुः नोआगमतः । बद्धायुष्को नाम येन भिक्षुपर्यायनिमित्तमायुर्बद्धं सः । अभिमुखनामगोत्रो यस्य भिक्षुपर्यायप्रवर्तनाभिमुखे नाम - गोत्रकर्मणी । स चार्यक्षेत्रे भाविभावभिक्षुपर्याये मनुष्यभवे समुत्पद्यमानः । यदि वा स्वजन धनादिकं परित्यज्य गुरुसमीपे प्रव्रज्याप्रतिपत्त्यर्थं स्वगृहात् विनिर्गच्छन् । यद्वा द्रव्यभिक्षुर्द्वधा पारमार्थिकाऽपारमार्थिकभेदेन । अपारमार्थिकाश्च द्विविधा गृहस्थलिङ्गिभेदेनेति वक्ष्यतेऽग्रे ( द्वा. द्वा. २७/२७-३१ पृ. १८९३-१८९६) ।
भावभिक्षुस्तु द्विविध आगमतो नोआगमतश्च । आगमतो भिक्षुशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भाव' इति (अनु.द्वा.सू.१४ वृ.) अनुयोगद्वारसूत्रवृत्तिवचनात् । नोआगमतो भावभिक्षुः त्रिविधं त्रिविधेनाखिलसावद्यविरतो यथोक्तस्वरूपो भिक्षुगुणसंवेदकः । तदुक्तं दशवैकालिकनिर्युक्तौ आगमतो उवउत्तो, तग्गुणसंवेअओ उभावंमि← ( द. वै.नि. १० / ३४१ ) इति । प्रकृते च नोआगमतो भावभिक्षुरभिमत इति ध्येयम् ।
'क्षुधं भिनत्तीति भिक्षुः' इति व्युत्पत्त्या भिक्षुः भेदक उक्तः | भेदको नाम भिदिक्रियाकर्ता । भिदिक्रिया च सकर्म्मिका । सकर्मिकायाश्च क्रियायाः कर्तृकरण- कर्मव्यतिरेकेण न सम्भव इति तद्ग्रहणेन भेदनं भेद्यमिति द्वयं सूचितम् । एतत्त्रितयं प्रत्येकं द्विधा द्रव्यतो भावतश्च । तथाहि भेदको द्विधा द्रव्यस्य भावस्य च । भेदनमपि द्विधा द्रव्यस्य भावस्य च । भेद्यमपि द्विधा- द्रव्यरूपं भावरूपञ्च । तत्र द्रव्यभेदक - भेदन - भेद्यस्वरूपं त्रिंशत्तमकारिकायां वक्ष्यते । भावस्य भेदको भिक्षुः यथोक्तस्वरूपः, भावस्य भेदनानि ज्ञान-दर्शन- चारित्र तपांसि भावभेत्तव्यं ज्ञानावरणीयादि कर्म । तदुक्तं व्यवहारसूत्रभाष्ये निशीथभाष्ये च दव्वे य भावे भेयग-भेयण-भेत्तव्वयं च तिविहं तु । नाणा भावभेयणं कम्मक्खुहेगट्ठयं भेज्जं ।। ← (व्य.सू.भा. उद्दे. १/११, नि.भा. ६२८० ) इति । कर्म क्षुद् इति एकार्थम् । तदुक्तं दशाश्रुतस्कन्धनिर्युक्तौ पावे वज्जे वेरे पणगे पंके खुहे असाए । संगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
•