________________
१८६८
• मनःपरिज्ञाने भिक्षुत्वम् •
द्वात्रिंशिका-२७/१५ उद्वेग इति । व्यक्तः ।।१५।।
तथा 'उद्वेग' इति । अन्तरङ्गसत्पुरुषार्थप्रभावेन → न विसीएज्ज पंडिए - (द.वै. ५।२।२६) दशवैकालिकसूत्रोक्तिसात्मीभावात्, भेदज्ञानाऽभ्यासेन → सव्वं हासं परिवच्चेज्ज (आचा.१।३।३।१२४) → ण उच्चावयं मणं नियंछेज्जा - (आचा.२।३।२) इति आचाराङ्गसूत्रयोर्विभावनात्, साक्षिभावाऽऽश्रयेण → हासं परिजाणइ से णिग्गंथे - (आचा.२ ॥३) इति आचाराङ्गसूत्रतात्पर्यपरिणमनात्, → हासं ण सेवियव्वं 6 (प्र.व्या.२ ७।२५) इति प्रश्नव्याकरणादिसूत्रस्मरणात् → ण यावि पन्ने परिहास कुज्जा - (सू.कृ. १।१४।१९) इति सूत्रकृताङ्गसूत्रसारोपलम्भात्, ग्रन्थिभेदेन विदितात्मस्वभावत्वात्, संयमप्रत्ययिकक्षयोपशमेन पञ्चाचारप्रवृत्त्या विराधकभावानुबन्धविच्छेदाच्च उद्वेगादिकं हास्यादिकं च न भवतीति तात्पर्यम् ।
. प्रकृते च → न आवि हासं कुहए जे स भिक्खू - (द.वै.१०/२०) इति दशवैकालिकोक्तिः स्मर्तव्या । तथा → लाहाऽलाह-सुहाऽसुह-जीवियमरण-ठिइपयाणेसु । हरिस-विसायविमुक्कं नमामि चित्तं चरित्तीणं ।। - (द.शु.१८५) इति दर्शनशुद्धिप्रकरणवचनमप्यत्र न विस्मर्तव्यम् । उत्तराध्ययनसूत्रे अपि → गारवेसु कसाएसु दंड-सल्लभएसु य । णियत्तो हास-सोगाओ अणियाणो अबंधणो ।। 6 (उत्त. १९/९१) इत्येवं भिक्षुस्वरूपमावेदितम् ।
परेषामपि सम्मतमिदम् । तदुक्तं परमहंसोपनिषदि → सर्वे कामा मनोगता व्यावर्तन्ते, दुःखे नोद्विग्नः, सुखे न स्पृहा, त्यागो रागे, सर्वत्र शुभाशुभयोरनभिस्नेहः, न द्वेष्टि, न मोदं च (प.हं.९) इति, → राग द्वेषं मदं मायां द्रोहं मोहं परात्मसु । षडेतानि यतिर्नित्यं मनसाऽपि न चिन्तयेत् ।। - (ना.परि.३/७०) इति च नारदपरिव्राजकोपनिषदि । तदुक्तं अष्टावक्रगीतायां → यत्पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः । अहो तत्र स्थितो योगी न हर्षमुपगच्छति ।। 6 (अ.गी.४/२) इति । यथोक्तं भगवद्गीतायां अपि → न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाऽप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ।। (भ.गी.५/२०) इति । तदुक्तं गणेशगीतायामपि → प्रियाप्रिये प्राप्य हर्ष-द्वेषौ ये प्राप्नुवन्ति न । ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ।। - (ग.गी.४/१९) इति | → अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते - (म.भा.शान्ति.१८९/१६) इति महाभारतवचनमपि स्मर्तव्यम् ।
एतेन → यस्मिन् सर्वाणि भूतान्यात्मैवाऽभूद् विजानतः । तत्र को मोह: ? कः शोकः? एकत्वमनुपश्यतः ।। 6 (ईशा.७) इति ईशावास्योपनिषद्वचनमपि व्याख्यातम्, 'आत्मवत्सर्वभूतेषु' इति प्रागुक्त (द्वा.द्वा.२७/२ पृ.१८४५) योगशास्त्राद्युपदर्शितन्यायभावितान्तःकरणतया सङ्ग्रहनयसीम्नि तदुपपत्तेः । यदपि संयुत्तनिकाये → अरतिञ्च रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं । वनयं न करेय्य
વિશેષાર્થ - ગાથાર્થ સ્પષ્ટ હોવાથી ટીકાકાર મહર્ષિએ તેનું વિવેચન કરેલ નથી. કહેવાનો મતલબ એ છે કે પુણ્યોદય ચાલતો હોય ત્યારે હાસ્ય કે રમતગમત સાધુના જીવનમાં જોવા ન મળે. તથા પાપોદય 3 प्रतिगत डोय तेवा संयोगमi 6, शोs, मयीसायीस, हुगुप्सा साधु न ४३. (२७/१५) १. हस्तादर्श 'व्यक्त' इति पदं नास्ति । हस्तादर्शान्तरे च 'स्पष्टम्' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org