________________
• भिक्षोः धर्मप्रवेदनेऽप्यसङ्गत्वम् •
१८६७ उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा। यस्य नाऽस्ति जुगुप्सा च क्रीडा चाऽपि कदाचन ।।१५।। → मोहक्खोहविहीणो परिणामो अप्पणो धम्मो - (भा.प्रा.८३) इति भावप्राभृतवचनं, → वस्तुस्वभावधर्मोऽस्ति सर्वलक्षणलक्षितः - (कृ.गी.७६) इति कृष्णगीतावचनं, → धम्मो वत्थुसहावो (का.अनु.५) इति कार्तिकेयानुप्रेक्षावचनं, → धम्मो सभावो लक्खणं (द.वै.अ.१ ।१) इति दशवकालिकचूर्णौ अगस्त्यसिंहसूरिवचनं चावलम्ब्य (६) 'आत्मनः स्वकीयविशुद्धस्वभावावस्थानलक्षणो धर्मः' इति कथयति ।
→ आया पच्चक्खाणे, आया मे संजमे तवे जोगे ( (म.वि. २१६, म.प्र.११, वीरभद्रसूरिकृतआतु. प्र.२५) इति मरणविभक्तिमहाप्रत्याख्यानाऽऽतुरप्रत्याख्यानप्रकीर्णकवचनं, → आया खलु सामाइयं 6 (आ.नि.७९०) इति आवश्यकनियुक्तिवचनं, → आदा धम्मो मुणेदव्वो 6 (प्र.सा. १/९) इति प्रवचनसारवचनं चोपयुज्य द्रव्यास्तिकनयाऽपेक्षया (७) 'केवल आत्मा = धर्मः' इत्येवं श्रोतृभूमिकानुसारेण शुद्धधर्मपदं = हेतुस्वरूपाऽनुबन्धविशुद्धधर्मवचनं → शब्दसृष्टिं प्रजानामि, शब्दसृष्टिं कदा न मे । शब्दजाले न पाण्डित्यं, वस्तुतो मे शुभाऽऽवहं ।। योग्यजीवप्रबोधार्थम्, भाषे भाषां तु वैखरीम् । शब्दब्रह्मप्रभिन्नोऽस्मि, परब्रह्माऽस्मि वस्तुतः ।।
6 (आ.द.गी.१०४-१०५) इति आत्मदर्शनगीतावचनतात्पर्यार्थसंवेदनपूर्वं निःसङ्गतया कथयति यथाशक्ति विधिना परोपकाराय । अत एव सुष्ठुक्तं नन्दिसूत्रचूर्णों → विविहकुलुप्पन्ना साहवो कप्परुक्खा - (नं.सू.चू.२/१६) इति । यद्यपि पर्जन्यन्यायेन सर्वेष्वेव जीवेषु भावभिक्षोः कृपालुताऽस्त्येव तथापि यस्य यद् योग्यं तस्य तत् तथैव निःसङ्गतया प्रागुक्तविधिना (द्वा.द्वा.२/४-२८-३०) कथयति । एतादृशश्च भावभिक्षुः स्वयं स्वभूमिकोचिताऽऽचारादिधर्मे स्थितः सन् परं श्रोतारमपि तत्तद्भूमिकोचिते श्रुतधर्मे चारित्रधर्मे च स्थापयति, तत्राऽऽदेयभावप्रवृत्तेः, अन्यथाऽऽयासमात्रप्रसङ्गात् । धर्मोपदेशश्च निर्जराकारणम्, तदुक्तं 'निक्खित्तसत्थमुसलो सोता जति भवति किंचि वी कालं । सोतुं च जति नियत्तति कहगस्स वि तं हितं होति ।।' ( ) इति ।
कुशीलानां धर्मचेष्टां = प्रागुक्तां (द्वा.द्वा.३/७-९-१० भाग-१ पृ.१५०) श्राद्धममत्वादिलक्षणां यद्वा→ बायालमेसणाओ न रक्खइ धाइ-सिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाई ।। सूरप्पमाणभोजी आहारेइ अभिक्खमाहारं । न य मंडलीए भुंजइ, न य भिक्खं हिंडई अलसो ।। कीवो न कुणइ लोअं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणा अ हिंडइ, बंधइ कडिपट्टयमकज्जे ।।
6 (उ.मा.३५४-५-६) इत्यादिलक्षणां उपदेशमालाप्रतिपादितां कुशीलधर्मप्रवृत्तिं परित्यजति । अत्र च → पवेअए अज्जपयं महामुणी धम्मे ठिओ ठावयई परं पि । निक्खम्म वज्जिज्ज कुसीललिंगं - (द.वै.१०/२०) इति दशवैकालिकवचनमनुसन्धेयम् ।।२७/१४।।।
વિશેષાર્થ:- અસંગ અવિનાશી અવિકલ્પ શુદ્ધ ચૈતન્યસ્વરૂપ આત્માના મૂળભૂત સાક્ષીમાત્ર વીતરાગતાદિ ગુણધર્મને જણાવનાર પદો એ આર્યપદ તરીકે માન્ય છે. સચ્ચિદાનંદમય શુદ્ધ આત્મસ્વભાવમાં રમણતા કરાવે તેવા શબ્દોને સાધુ અવસરે બોલે. માત્ર બોલે નહિ પણ શુદ્ધ સંયમજીવનમાં સ્થિરતાને પણ ધારણ કરે અને સંયમમાં અસ્થિર એવા અન્ય સહવર્તીને પણ સાધુ સંયમજીવનમાં સ્થિર કરે.(૨૧૪)
હ સાધુ ન હસે કે ન ડે थार्थ :- ॐने उl, हास्य, शोध, २६न, मा, हुगुप्सा तथा 80.31-२मतगमत ध्याश्य ५५॥ न होय ते मासाधु वाय. (२७/१५) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org