________________
१८६६
• सप्तविधधर्मस्वरूपप्रवेदनम् • द्वात्रिंशिका-२७/१४ प्रवेदयतीति । प्रवेदयति = कथयति आर्यपदं = शुद्धधर्मपदम् ।।१४।।
किञ्च- ‘प्रवेदयतीति । स हि तावत् शुद्धधर्मपदं परिच्छिनत्ति । अत एव → सूचनात् सूत्रमित्युक्तं सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स मुमुक्षुः स भिक्षुकः ।। - (पर.२/३) इति परब्रह्मोपनिषद्वचनमप्यत्रैव लब्धप्रसरमवगन्तव्यम् । ततश्च → यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः - (नी.वा.१/१,वै.सू.१/१/२) इति नीतिवाक्यामृत-वैशेषिकसूत्रयोः वचनं → आचारः परमो धर्मः 6 (म.स्मृ.१/१०८) इति मनुस्मृति-वचनञ्च चेतसिकृत्य सामान्यतः सार्वतन्त्रिकान् श्रोतॄन् प्रति (१) 'सदाचारो मोक्षफलो धर्म' इति कथयति ।
स्व-परतन्त्रस्थितान् मिश्रान् श्रोतृन् आश्रित्य तु → अहिंसा धर्मयागः - (पा.ब्र.५) इति पाशुपतब्रह्मोपनिषद्वचनं, → अहिंसा तु तपोयज्ञः - (शा.उप.१४) इति शाट्यायनीयोपनिषद्वचनं, → अहिंसा नियमेष्वेका मुख्या (यो.त.२९) इति योगतत्त्वोपनिषद्वचनं, → अहिंसा परमो धर्मः - (म. भा.अनुशा.११५/२३) इति महाभारतवचनं, → अहिंसयैव भूतानां कार्यं 6 (मनु.२/१५९) इति पूर्वोक्तं (पृ.१४२०) मनुस्मृतिवचनं, → अहिंसा वैदिकं कर्म - (बृ.गौ.१५/७४) इति बृहद्गौतमस्मृतिवचनं, → अहिंस्युत्पद्यते स्वर्गम् - (व.स्मृ.१/२९/३) वशिष्ठस्मृतिवचनं, → अहिंसालक्खणो धम्मो - (नं.सू.१ चू.) इति नन्दिसूत्रचूर्णिवचनं, → धम्ममहिंसासमं नत्थि - (भ.प.प्र.९१) इति भक्तपरिज्ञाप्रकीर्णकवचनं, → जीवाणं रक्खणं धम्मो - (का.अनु. ४९८) इति कार्तिकेयानुप्रेक्षावचनं च चेतसिकृत्य (२) अहिंसा परमो धर्मः' इति प्रवेदयति । ___स्वतन्त्रस्थितान् श्रोतॄन् प्रति → जयणा उ धम्मजणणी -(उ.प.७७०,सं.स.६७,सं.प्र.३/२६,पं.व.१२६२, पं.७/३०) इति उपदेशपद-सम्बोधसप्ततिका-सम्बोधप्रकरण-पञ्चवस्तुक-पञ्चाशकवचनं, → धम्मो दयाविसुद्धो - (बोध.प्रा.२५) इति बोधप्राभृतवचनं, → धम्मस्स विणओ मूलं -(द.वै.९/२/२) इति दशवैकालिकवचनं,→ विणओ मोक्खद्दारं - (मूला.७।१०६,चं.वे.५४) इति मूलाचार-चन्द्रकवेध्यकप्रकीर्णकयोर्वचनं, → धर्मस्याऽऽदिपदं दानं 6(यो.बि.१२५) इति पूर्वोक्तं(पृ.२,२६७,८५०,८५२) योगबिन्दुवचनं,→ धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो 6(द.वै.१।१) इति दशवकालिकसूत्रवचनं, → रयणतयं च धम्मो सं(का.अनु.४७९) इति कार्तिकेयानुप्रेक्षावचनं च मनसिकृत्य (३) 'यतनाविनयादिमूलकं संयम-दानाद्यनुष्ठानं = धर्मः' इति कथयति । __ पूर्वोक्तं(पृ.२०,९४२) → अणुवओगो दव्वं (अनु.सू.१३) इति अनुयोगद्वारसूत्रवचनं,→ धन्नाणं विहि जोगो, विहिपक्खाऽऽराहगा सया धन्ना - (सं.प्र.२/३३८, द.शु.२८) इति सम्बोधप्रकरण-दर्शनशुद्धिप्रकरणवचनं, → विधिं करेंतो जदि वि दोसेहिं पुट्ठो, तहा वि सुद्धो - (नि.भा. ४१९२ चू.) इति निशीथचूर्णिवचनं, → विहिसारं चिय सेवइ सद्धालू सत्तिमं अणुट्ठाणं - (ध.र.प्र.९१) इति धर्मरत्नप्रकरणवचनं, → जिणवयणंमि परिणए अवत्थविहिआणुट्ठाणओ धम्मो - (द.वै.नि.१६४) इति दशवैकालिकनियुक्तिवचनं च विमृश्य (४) 'यथाशक्ति श्रद्धोपयोग-विधिविशुद्धं स्वभूमिकोचित-विहितानुष्ठानकरणं धर्मः' इति कथयति ।
→ समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवति (निरया.पृ.८) इति निरयावलिकावचनं, → धम्मो आणाए पडिबद्धो 6 (श्रा.ध.३) इति श्रावकधर्मविधिवचनं, → धम्मो सुद्धस्स चिट्ठइ (उत्त. ३।१२) इति उत्तराध्ययनसूत्रवचनं, → निजात्मगुणपर्यायरक्षणं धर्म उच्यते - (अध्या.गी.१२४) इति अध्यात्मगीतावचनं, → आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् - (यो.सा.१/२१) इति योगसारवचनं च लक्ष्यीकृत्य (५) 'जिनाज्ञानुसारिचित्तगतविशुद्धपरिणतिः धर्मः' इति कथयति ।
→ मोहक्षोभविहीनो ह्यात्मनः परिणामः शुद्धः - (म.स्या.रह.भाग-३/पृ.१९६) इति स्याद्वादरहस्यवचनं, ટીકાર્થ :- આર્યપદ એટલે શુદ્ધધર્મને જણાવનારા પદ, બાકીનો ગાથાર્થ સ્પષ્ટ છે. (૨૭/૧૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org