________________
१८६४
• भिक्षुः जीवन-मरणसमदर्शी • द्वात्रिंशिका-२७/१३ यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् । प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः ॥१३॥
य इति । परं = स्वपक्षविनेयव्यतिरिक्तम् । पंको ति हि तं पवेदय्यं यायं वन्दनपूजना कुलेसु । सुखुमं सल्लं दुरुब्बहं सक्कारो कापुरिसेन दुज्जहो ।। 6 (थे.गा.२/१२४) इति ।
→ जीवियं नाऽभिकंखेज्जा, मरणं नो वि पत्थए - (आचा.१।८।८।१९) इति आचाराङ्गवचनात्, → जीवियाऽऽस-मरणभयविप्पमुक्का - (व्या.प्र.८/७) इति व्याख्याप्रज्ञप्तिसूत्रवचनात्, → कालं अणवकंखमाणे विहरइ - (औप.१/७३) इति औपपातिकसूत्रवचनात्, → निरवकंखे जीवियमरणाऽऽसविप्पमुक्के - (प्र.व्या. २।१०।२९) इति प्रश्नव्याकरणसूत्रवचनाच्च असंयमजीवितं = हिंसाद्यासेवनलब्धवृत्तिकजीवनं न काङ्क्षति = नैवैतदर्थं यतते, तद्विपाकाऽवगमात् । परेषामपीदमनुमतमेव । तदुक्तं मारदपरिव्राजकोपनिषदि → मरणं जीवितं वा न काङ्केत - (ना.परि.५/१) इति । तदुक्तं संन्यासगीतायां महाभारते च → नाभिनन्देत मरणं नाऽभिनन्देत जीवितम् - (सं.गी.६/१००, म.भा.शांति.२५१/१५) इति । → मायामात्रमिदं विधं पश्यन् विगतकौतुकः । अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ।। - (अ.गी.३/११) इति अष्टावक्रगीतावचनमप्यत्र यथानयं योज्यं → विकल्पतल्पमारूढः शेषः पुनरुपप्लवः - (द्वा.द्वा.२४/४ भाग-६ पृ.१६२६) इति प्रागुक्तं सिंहावलोकनन्यायेनाऽनुस्मरद्भिर्मध्यस्थधीधनैः ।
बौद्धानामपि सम्मतमिदम् । तदुक्तं उदाने → यं जीवितं न तपति मरणन्ते न. सोचति । स वे दिट्ठपदो धीरो सोकमज्झे न सोचति ।। 6 (उदा.४/९) इति। प्रकृते च → उवहिमि अमुच्छिए
अगिद्धे अन्नायउँछं पुलनिप्पुलाए । कयविक्कयसंनिहिओ विरए सव्वसंगाऽवगए जे स भिक्खू ।। अलोल भिक्खू न रसेसु गिज्झे, उंछं चरे जीविअ नाऽभिकंखे। इड्डिं च सक्कारपूअणं च, चए ठिअप्पा अणिहे जे स भिक्खू ।।6 (द.वै.१०/१६-१७) इति दशवैकालिकगाथे अनुसन्धेये। तदुक्तं सूत्रकृताङ्गेऽपि → नो पूयणं तवसा आवहेज्जा - (सूत्र.१/७/२७) इति ।।२७/१२।।
तथा- 'य' इति । → नो वयणं फरुसं वएज्जा - (आचा.२/१/१६) इति आचाराङ्गसूत्राशयोपलम्भेन, → जो परिभवइ परं जणं, संसारे परिवत्तइ महं 6 (सू.कृ.१/२/२/१) इति सूत्रकृताङ्गसूत्रतात्पर्यपरिणमनेन च यो न कोपकरं = क्रोध-क्लेशादिकारकं 'अयं कुशील' इत्यादिकं वचो ब्रूयात्, दोषसद्भावेऽपि । तथा स्वपक्षविनेयव्यतिरिक्तं = व्यवहारतो निजगण-शिष्यभिन्नं कुशीलं = शिथिलं न वदेत्, तदप्रीत्यादिदोषप्रसङ्गात्, स्वस्य परपरिभवेन दीर्घसंसारित्वादिप्रसङ्गाच्च । स्वपक्षविनेयं तु शिक्षाग्रहणबुड्या वदेदपि कदाचित् । न चैवमसातवेदनीयकर्मबन्धप्रसङ्गः, स्वविनेयपरितापकरणादिति शङ्कनीयम्, दुष्टशैक्षहितकारित्वेन तत्परिहारात् । तदुक्तं बृहत्कल्पभाष्ये → कामं परितावो असायहेतु
છે ગુસ્સો ન કરે કે ન ક્રાવે તે સાધુ છે ગાથાર્થઃ- જે બીજાને ગુસ્સો કરનાર વચન ન બોલે, બીજાને કુશીલન કહે, દરેક ક્રિયામાં પુણ્ય અને પાપ પ્રત્યેક જીવમાં સ્વતંત્ર રહે છે તેમ ઓળખે તથા જાતિ વગેરે મદથી રહિત હોય તેને સાધુ કહેવાય. (૨૭/૧૩)
ટીકાર્થ :- સાધુ પોતાના વર્તુળના શિષ્યો સિવાયના અન્ય સાધુઓને ક્યારેય પણ ઠપકારૂપે શિથિલ यारित्रहीन तरी न पोतो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org