________________
• भिक्षुः जीवन्मुक्तः .
१८६३ ऋद्धिः 'आमर्पोषध्यादिका, सत्कारो वस्त्रादिना, पूजा प्रसूनादिना, जीवितं = असंयमजीवितम् (यो न काङ्क्षति) ।।१२।।
आमर्शोषध्यादिकाः । आमर्शः = हस्तादिना स्पर्शः एव योगप्रभावेण औषधिः तत्तद्रोगोच्छेदकत्वात् । आदिपदेन कफ-विपुण्मल-मूत्र-नख-सर्वौषधि-सम्भिन्नश्रोतोलब्ध्यादिग्रहः । प्रकृते → अभिपूजितलाभांश्च जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ।। - (ना.परि.५/७) इति नारदपरिव्राजकोपनिषद्वचनमपि यथातन्त्रमूहनीयम् ।
पूजा प्रसूनादिना = सुवर्णमयकुसुमादिना । श्रीहरिभद्रसूरयस्तु ‘पूजनं च स्तवादिना' (द.वै.१०/ १७ वृ.) इत्याहुः । प्रकृते → अच्चणं रयणं चेव वंदणं पूयणं तहा । इड्ढी सक्कार-सम्माणं मणसा वि न पत्थए ।। - (उत्त.३५/१८) इति उत्तराध्ययनसूत्रोक्तिरपि भावनीया । तदुक्तं सूत्रकृताङ्गसूत्रे अपि → सुद्धे सिया जाए न दुसएज्जा, अमुच्छिते ण य अज्झोववण्णे । धितिमं विमुक्के ण य पूयणट्ठी न सिलोयकामी य परिव्वएज्जा ।। ( (सू.कृ.१।१०।२३) इति । यथोक्तं अध्यात्मकल्पद्रुमे अपि → यो दानमानस्तुतिवन्दनाभिर्न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभलाभादिपरीषहान् सहन्, यतिः स तत्त्वादपरो विडम्बकः ।। - (अ.क.१३/४५) इति । ततश्च → अप्पपसंसा पुरिसस्स होइ चिंधं सुनिग्गुणत्तस्स - (आ.पता.२१५) इति आराधनापताकावचनरहस्यार्थविभावनात्, → जइ मे परो पसंसाति असाधु साधु माणिया । न मे सा तायए भासा अप्पाणं असमाहितं ।। जति मे परो विगरहाति साधु संतं णिरंगणं । ण मे सऽक्कोसए भासा अप्पाणं सुसमाहितं ।।
6 (ऋ.भा. ४/१७,१८) इति ऋषिभाषिताऽऽशयपरिणमनात्, → नो सक्कईमिच्छई न पूयं नो वि य वन्दणगं कुओ पसंसं ?। से संजए सुव्वए तवस्सी सहिए आयगवेसए स भिक्खू ।। ( (उत्त.१५/५) इति उत्तराध्ययनसूत्रतात्पर्योन्नयनेन निजनिरुपाधिकात्मस्वरूपगवेषकत्वाच्च न पूजाप्रशंसाद्याकाङ्क्षासम्भवः । एतेन → यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् । तथा तथा न रोचन्ते विषयाः सुलभा अपि ।। 6 (इष्टो.३७) इति इष्टोपदेशवचनमपि पूर्वोक्तं(पृ.१६५६) व्याख्यातम् ।
प्रकृते → न निन्दा न स्तुतिर्यादृच्छिको भवेद् भिक्षुः - (प.हं.८) इति परमहंसोपनिषद्वचनं, → प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः । तस्मादेनां परित्यज्य कीटवत् पर्यटेद् यतिः ।। (ना.परि.५/१५,सं.गी.१०/१५) इति नारदपरिव्राजकोपनिषत्-संन्यासगीतावचनं, → सन्मानात् तपसः क्षयः 6 (आ.स्त.स्मृ.१०/९) इति आपस्तम्बस्मृतिवचनं, → चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् । संस्तवे चाऽपि निन्दायां कथं क्षुभ्येद् महाशयः ?।। - (अ.गी.३/१०) इति अष्टावक्रगीतावचनं → न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः - (म.भा.शांति.२५१/१४) इति च महाभारतवचनं यथागममनुयोज्यमागमनयविशारदैः ।
अयञ्च परैः जीवन्मुक्ततयेष्यते । तदुक्तं अध्यात्मोपनिषदि → साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः । समभावो भवेद् यस्य स जीवन्मुक्त इष्यते ।। - (अध्या.४७) इति । परं सामान्यजनस्य तु पूजा-प्रशंसापङ्किलसूक्ष्मशल्योद्धारो दुःशक एवेति सौगतानामपि सम्मतम् । तदुक्तं थेरगाथायां →
તથા આમર્ષ ઔષધિ વગેરે ઋદ્ધિઓને, વસ્ત્રાદિ દ્વારા સત્કારને, ફૂલ વગેરે દ્વારા પોતાની પૂજાને અને અસંયમ પોષનારી જીંદગીને સાધુ ઈચ્છે નહિ. (૨૭/૧૨) १. हस्तादर्श 'आमषेष....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org