________________
• अपरोक्षस्वानुभूत्युपायनिरूपणम् •
१८५९ स्वसंसर्गिणि निर्ममत्वभावनौपयिकं नमिराजर्षिदृष्टान्तमुपदर्शयतितथाहि मिथिलानाथो मुमुक्षुर्निर्ममः पुरा । बभाण मिथिलादाहे न मे किञ्चन दह्यते ।।१०।।
तथाहीति सम्प्रदायव्यक्तोऽयम् ।।१०।। लब्धावकाशम् । प्रकृते → अन्नं इमं सरीरं अन्नो हं इय मणम्मि ठाविज्जा - (म.वि.३६९) इति मरणविभक्तिप्रकीर्णकवचनस्य, → अन्नं इमं सरीरं अन्नो जीवो त्ति निच्छयमइओ । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। - (सं.प्र.९९) इति संस्तारकप्रकीर्णकवचनस्य, → वोसिरे सव्वसो कार्य, न मे देहे परीसहा - (आचा.१।४।४।३६) इति आचाराङ्गवचनस्य, → अन्नं इमं सरीरं अन्नो जीवु त्ति एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। - (आ.नि.१५४७) इति आवश्यकनियुक्तिवचनस्य, → उद्विजते न रोगेभ्यो न च काङ्क्षच्चिकित्सितम् । अदीनस्तु सहेद् देहाज्जानानो भेदमात्मनः ।। - (यो.शा.३/१५३ वृत्ति-१६) इति योगशास्त्रवृत्तिवचनस्य, → अपि रोगादिभिर्वृद्धैर्न मुनिः खेदमृच्छति । उडुपस्थस्य कः क्षोभः प्रवृद्धेऽपि नदीजले ।। - (आत्मा.२०४) इति आत्मानुशासनवचनस्य → मदीयं यन्न तद् भिन्नं, भिन्नं तन्न मदीयकम् । कुतः शोचामि तुष्यामि, बाह्यभावमनाश्रितः ।। दृश्यं यत्तन्न मे किञ्चिद्, ध्रुवं ज्ञातं विवेकतः । आत्माऽरिर्बन्धुरात्मा मे, दुष्टाऽदुष्टविचारतः।।
6 (आ.द.गी.८८,८६) इति आत्मदर्शनगीतावचनस्य, → 'नृ-नारकादिपर्यायैरप्युत्पन्नविनश्वरैः । भिन्नैर्जहाति नैकत्वमात्मद्रव्यं सदान्वयि ।। (अ.सा.१८/२३) कर्मणस्ते हि पर्याया नाऽऽत्मनः शुद्धसाक्षिणः । कर्म क्रियास्वभावं यदात्मा त्वजस्वभाववान् ।। - (अ.सा.१८/२५) इति अध्यात्मसारोक्तेश्च 'श्रवणनिरन्तरमनन-दृढश्रद्धान- सार्वत्रिकपरिशीलन- दीर्घकालीनप्रयोग-बहुमानगर्भनिदिध्यासन- विशुद्धपरिणमनादिभिः तादृक्षाऽपरोक्षस्वानुभूतिरुपलभ्यते । तत एव जीवन्मुक्तिलाभसम्भवः । तदुक्तं शम्भुगीतायां → अपरोक्षानुभूतिं हि कृत्वैवाऽऽसादयन्त्यलम् । जीवन्मुक्तिपदं भक्ता ज्ञानिनां मे न संशयः ।। - (शं.गी.५/१३६) इति ध्येयम् ।।२७/९।।
स्वसंसर्गिणि गेह-देह-स्नेहादौ निर्ममत्वभावनौपयिकं = वैराग्य-२भावना-स्पर्शना- संवेदनादिपराकाष्ठोपायभूतं नमिराजर्षिदृष्टान्तं ग्रन्थकृद् उपदर्शयति- 'तथाही'ति । पुरा = प्राक् मिथिलानाथः नमिराजा बभूव । स च शारीरवेदनाग्रस्तः सन् मुमुक्षुः = प्राक् शारीरदुःखमुमुक्षावान् पश्चाच्च → 'बहुआणं सद्दयं सुच्चा एगस्स य असद्दयं । वलयाण नमीराया निक्खंतो मिहिलाहिवो ।। 6 (आ.नि.भा.२११ उत्त.नि.२७३) इति आवश्यकनियुक्तिभाष्य-उत्तराध्ययननियुक्तिदर्शितदिशा शारीरादिदुःखमूलभूतहिंसादिविराधना-देहाध्यासादिलक्षणविराधकभावगोचरमुमुक्षाशाली नमिराजर्षिः ‘एस अग्गी य वाउ य एयं उज्जइ मंदिरं । भयवं ! अंतेउरं ते णं कीस णं नवि पेक्खह ? ।।' (उत्तराध्ययन-९/१२) इति
હ બાહ્ય લાભ-નુક્શાન ન ગણકરે તે સાધુ ફ પોતાની સાથે સંકળાયેલ શરીરાદિ પુદ્ગલો પ્રત્યે નિર્મમત્વ ભાવનાને લાવવામાં નમિરાજર્ષિનું દષ્ટાંત ઉપાય બની શકે તેમ છે. માટે ગ્રંથકારશ્રી તે ઉદાહરણને દેખાડે છે.
ગાથાર્થ :- આ મુજબ સમજવું કે પૂર્વે મિથિલા નગરીના રાજા મોક્ષની ઝંખના થવાના કારણે મમત્વશૂન્ય થયા ત્યારે બોલ્યા કે “મિથિલા સળગે તેમાં મારું કશું બળતું નથી.” (૨/૧૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org