________________
• दुःखोदयेऽपरिपक्वात्मज्ञानविगमः
१८५७
व्युत्सृष्टो 'भावप्रतिबन्धाऽभावेन त्यक्तश्च विभूषाऽकरणेन देहः = शरीरं यस्य (येन)स (= व्युत्सृष्टत्यक्तदेहः) तथा । योऽनिदानो भाविफलाऽऽशंसारहितो अकुतूहलश्च नटादिदर्शने ।।८।। भावनाफलमावेदितं तदपि स्वसमयाऽविरोधेनाऽत्र विपश्चिद्भिरनुयोज्यम् । मनापामनापा = मनोज्ञाSमनोज्ञाः, परियादाय पर्यादाय, ठस्सन्ति शुचौ अपि, गूथगतम्पि विष्टागतेऽपि, जिगुच्छति
जुगुप्सति, शिष्टं स्पष्टम् ।
न च किमर्थमेवमात्मा दुःखैर्भाव्यते ? इति शङ्कनीयम्, यतः सुखशीलतया भावितस्य ज्ञानस्य दुःखोदयकाले प्रच्यवात्, तथाविधज्ञानविरहे आत्माऽनुभवस्य दुर्लभत्वात्, सत्यपि तस्मिन् शुद्धाऽऽत्मभावनायाः दुष्करत्वात्, सत्यामपि च तस्यामनादिभवाऽभ्यस्तदेहेन्द्रियविषयादेर्वैराग्यस्य दुरापत्वात् परमानन्दकामेनोपसर्ग-परिषहादिसहनस्य न्याय्यत्वमेव । तदुक्तं मोक्षप्राभृते अपि सुहेण भाविदं गाणं दुहे जादे विणस्सदि । तम्हा जहाबलं जोई अप्पा दुक्खेहि भावए ।। (मो.प्रा. ६२ ) दुक्खेण णज्जइ अप्पा, अप्पा णाऊण भावणा दुक्खं । भावियसहावपुरिसो विसयेसु विरज्जए दुक्खं ।। (मो.प्रा.६३) ← इति भावनीयं तत्त्वमेतदात्मदर्शनाद्याकाङ्क्षिभिः, न च विस्मर्तव्यमत्र पुव्वमकारियजोगा समाहिकामा वि मरणकालम्मि । न भवंति परिसहसहा विसयसुहपमोइयऽप्पाणो ।। ← ( म. वि. १६५) इति मरणविभक्तिप्रकीर्णकवचनम् । भावप्रतिबन्धाऽभावेन
=
=
Jain Education International
=
स्थास्यन्ति, सुचिम्पि
आन्तरममताया देहाध्यासादिप्रयुक्ताया विरहेण सर्वदेति गम्यते । अनिदानः = भाविफलाऽऽशंसारहितः पापविरतत्वात् । तदुक्तं आचाराङ्गे जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया ← ( आचा. १ ।४ । ३) इति । निदानस्वरूपं तु पञ्चसूत्रवृत्तौ क्लिष्टबन्धहेतोः भवाऽनुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धौ अध्यवसानस्य निदानत्वात् ← (पं. सू. पृ. २३ - वृ.) इत्येव - मुक्तम् । सम्मतञ्चेदं परेषामपि । तदुक्तं नारदपरिव्राजकोपनिषदि भिक्षुः नैहिकाऽऽमुष्मिकाऽपेक्षः । यद्यपेक्षाऽस्ति तदनुरूपो भवति ← (ना. परि. ५/१२ ) इति । प्रकृतसमुदितार्थश्च दशवैकालिके असई वोसट्टचत्तदेहे अक्कुट्ठे व हए लूसिए वा । पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू ।। ← ( द. वै.१०/१३) इत्येवमुक्तः । अत्र अगस्त्यसिंहसूरिकृतचूर्णिरेवम् असतिं अभिक्खणं पुणो पुणो, वोसट्ठो = पडिमादिसु विनिवृत्तक्रियो, हाणाऽणुमद्दणातिविभूसाविरहितो चत्तो, सरीरं = देहो, वोसट्ठी चत्तो य देहो जेण सो वोसट्टचत्तदेहो । एवं वोसट्ठचत्तदेहे अक्कुट्ठे वा मादिसगारादीहिं, हते कसातीहिं, लूसिते पादकड्ढणिमादीहिं । एवं किरमाणे वि पुढवीसमए । जधा पुढवी अक्कोसादीहिं ण विचलति तथा सो पुढवीसमो तधा भवेज्जा । दिव्वादिविभवेसु अणिट्ठद्धचित्ते अणिदाणे, णच्चणगादिसु अकुतूहले स भिक्खू ← (द.वै.चू.१०/१३) इति ।।२७/८ ।।
=
=
જેને દેહનું ભાવથી મમત્વ ન હોય તેણે દેહનું વ્યુત્સર્જન કરેલું કહેવાય તથા જે દેહવિભૂષા ન કરે તેણે દેહનો ત્યાગ કર્યો કહેવાય. આમ દેહનું વ્યુત્સર્જન અને ત્યાગ કરે તે સાધુ કહેવાય. તથા જે ભવિષ્યમાં ધર્મસાધનાના બદલામાં કોઈ દુન્યવી ફળનો સોદો નિયાણું ન કરે તેને સાધુ કહેવાય. તથા નટ વગેરેને જોવામાં જેને કુતૂહલ ન હોય તે સાધુ કહેવાય. (૨૭/૮)
१. मुद्रितप्रतौ 'भवप्र...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
=
www.jainelibrary.org