________________
१८५६
• स्वस्यैव स्वशत्रुत्व-मित्रत्वादिकम् • द्वात्रिंशिका-२७/८ ऽप्यस्यावसेया । तदुक्तं व्यवहारसूत्रभाष्ये → वंदण-सक्कारादी अणुलोमा, बंध-वहण पडिलोमा । ते च्चिय खमति सव्वे, एत्थं रुक्खेण दिटुंतो।। वासीचंदणकप्पो जह रुक्खो इय सुह-दुक्खसमो उ । राग-दोसविमुक्को सहती अणुलोम-पडिलोमे ।।
(व्य.सू.उद्दे.१०/भा.३८५०-५१) इति । यथोक्तं संन्यासोपनिषदि कुण्डिकोपनिषदि च आथर्वणीयायां → स्तूयमानो न तुष्येत निन्दितो न शपेत् परान् (सं.उप.४, कु.उप.१२) इति । तथा → अप्पा मित्तममित्तं च दुप्पट्टिय सुपट्ठिओ । अप्पा कत्ता विकत्ता य दुक्खाण य सुहाण य ।। (उत्त. २०/३७) इति उत्तराध्ययनवचनतात्पर्यपरिणमनेन, → जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडिए | तं पि य कसाइयमित्तो नासेइ नरो मुहुत्तेण ।। 6 (नि.भा.२७९३, बृ.क.भा.२७१५, ती.प्र.१२०१) इति पूर्वोक्त(पृ.८४५) निशीथभाष्य-बृहत्कल्पभाष्य-तीर्थोद्गालीप्रकीर्णकवचननिहितार्थसमालोचनेन, → वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा मुणी समुग्धाइयराग-दोसा ।। - (आ.नि.८६६) इति आवश्यकनियुक्तिदर्शितमुनिस्वरूपसंवेदनेन, → कसाया अग्गिणो वुत्ता सुय-सीलतवो जलं (उत्त.२३/५३) इति उत्तराध्ययनसूत्रदर्शितश्रुत-शीलादिसत्त्वेन, → णवणीयतुल्लहियया साहू - (व्य.भा.७।२१५) इति व्यवहारसूत्रभाष्योपदर्शितसाधुस्वरूपाऽऽविर्भावनेन, → मह्यं न कुप्यते कोऽपि, कोप्यं तन्नाऽस्मि वस्तुतः । द्वेष्यं जगति नैवाऽत्र, वस्तुतोऽहं न शब्दभाक् ।। भाषाविचित्रवाच्योऽहं कथञ्चित् सव्यपेक्षतः । अवक्तव्यं स्वरूपं मे, शब्दानां तत्र का गतिः ।। निन्दन्तु के स्तुवन्तु के, गालिदानं ददन्तु के । साक्ष्यात्मा सर्ववस्तूनामात्मज्ञानेन सर्वदा ।।
6 (आ.द.गी.१०३,१०६,११३) इति आत्मदर्शनगीतावचनैदम्पर्यार्थपरिणमनेन, → पूर्वं दुःखं ततः पश्चात् सुखं भवति योगिनाम् । सुखाय दुःखभोगोऽस्ति ज्ञात्वा ज्ञानी न मुह्यति ।। - (कृ.गी.४८) इति कृष्णगीताऽऽशयोपलम्भेन, → स्तूयमानो न हृष्येत निन्दितो न शपेत् परान् + (य.ध.स. ) इति यतिधर्मसमुच्चयतात्पर्यार्थपरिणमनेन च न कुत्रचिदप्यस्य द्वेषोत्पादसम्भव इति भावः । न हि महापृथ्वी जातुचित् खननोत्खननादिनाऽपृथिवी सम्पद्यते । तथैवाऽयमपि न कदाप्युपसर्गपरिषहादिनाऽमहात्मा सम्पद्यत इति भावः ।
बौद्धानामपि सम्मतोऽयमर्थः मज्झिमनिकाये क्रकचोपमसूत्रे (म.नि. १३।२२८) व्यक्ततयेत्यवधेयम् । इत्थञ्च सहिष्णुतागुणोत्कर्षेण क्रोध-मानादिविजयतो दुःखविजयमवाप्नोत्ययम् । परेषामपि सम्मतमिदम् । तदुक्तं संयुक्तनिकाये देवतासंयुक्ते → कोधं जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्कमेय्य । तं नाम-रूपस्मिमसज्जमानं, अकिञ्चनं नानुपतन्ति दुक्खा ।। - (सं.नि.१।१। सतुल्लपकायिकवग्ग४/३४ पृ.२७) इति । संयोजनं = भावबन्धनं, शिष्टं स्पष्टम् ।
यदपि मज्झिमनिकाये → पथवीसमहि ते, राहुल ! भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, पथविया सुचिम्पि निक्खिपन्ति, असुचिम्पि निक्खिपन्ति, गूथगतम्पि निक्खिपन्ति, मुत्तगतम्पि निक्खिपन्ति, खेळगतम्पि निक्खिपन्ति, पुब्बगतम्पि निक्खिपन्ति, लोहितगतम्पि निक्खिपन्ति, न च तेन पथवी अट्टीयति वाहरायति वा जिगुच्छति वा, एवमेव खो त्वं, राहुल ! पथवीसमं भावनं भावेहि । पथवीसमञ्हि ते, राहुल! भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति - (म.नि.२ १२ १२ ११९,पृ.९३) इत्येवं पृथ्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org