________________
पृथिवीसमः भिक्षुः
१८५५
आक्रुष्टो वा 'हतो वाऽपि लूषितो वा क्षमासमः । व्युत्सृष्टत्यक्तदेहो योऽनिदानश्चाऽकुतूहलः । । ८ ।। आक्रुष्टो वेति । आनुष्टो वा कुवचनैः, हतो वाऽपि दण्डादिभिः, लूषितो वा खड्गादिभिः, क्षमासमः पृथ्वीसमो; निष्प्रतिकर्मत्वात् ।
चरेद् यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ।। ← (व. स्मृ.१० / ३) इति । तदुक्तं महाभारतेऽपि अभयं सर्वभूतेभ्यो यो ददाति दयापरः । अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः । । ← (म.भा. अनुशा. १७५/२५) इति । तदुक्तं बौधायनधर्मसूत्रे अपि अभयं सर्वभूतेभ्यो दत्वा यश्चर मुनिः । न तस्य सर्वभूतेभ्यो भयं चापीह जायते ।। ← ( बौ. ध.सू.२/१०/१७/३०) इति । नाभिनन्देत मरणं नाऽभिनन्देत जीवितम् ← ( ना. परि. ३ / ६१ ) इति नारदपरिव्राजकोपनिषद्वचनमप्यत्र परमार्थवृत्त्या परिणतम् । अत एव तस्य सदा निःशङ्कत्वमपि सिध्यति । तदुक्तं समयसारे → सत्तभयविप्पमुक्का जम्हा, तम्हा दु णिस्संका ← ( स.सा. २२८ ) इति । प्रकृते चालिज्जइ बिभे य धीरो न परिसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ।। ← ( ध्या.श.१ / ९१) इति ध्यानशतकवचनाद् धैर्यस्यैव तत्त्वतो नियामकत्वमवगन्तव्यम् । यथोक्तं उत्तराध्ययनसूत्रे अपि सुसाणे सुन्नगारे वा रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा न य वित्तासए परं ।। तत्थ से चिट्ठमाणस्स उवसग्गाभिधारए । संकाभीओ न गच्छेज्जा उट्ठित्ता अन्नमासणं । ← ( उत्त. २ / २०-२१), अक्कोस वहं विइत्तु धीरे मुणी चरे लाढे निच्चमायगुत्ते । अव्वग्गमणे असंपहिट्ठे जो कसिणं अहियासए स भिक्खू ।। ← ( उत्त. १५ । ३) इति ।।२७/७ ।। तथा - 'आक्रुष्ट' इति । लूषित इति उपलक्षणात् भक्षितो वा शृगालादिभिः । वसुंधरा इव सव्वफासविसहा ← (सू. कृ. २।२ । ३८ ) इति सूत्रकृताङ्गसूत्रपरिणमनेन, तितिक्खं परमं गच्चा ← (आचा. १।८।८।४०) इति आचाराङ्गसूत्रतात्पर्याऽवलम्बनेन, पुढवीव सव्वफाससहे ← (क.सू. क्षण - ५ ) इति कल्पसूत्रेदम्पर्याऽवगमेन च पृथ्वीसमः । तदुक्तं चन्द्रकवेध्यकप्रकीर्णके अपि सीयसहं उण्हसहं वायसहं खुह-पिवास - अरइसहं । पुढवी विव सव्वसहं सीसं कुसला पसंसंति ।। ← (चं. वे.३८) इति । अनेन प्रतिकूलोपसर्गादिसहिष्णुत्वमस्याऽऽवेदितम् । उपलक्षणात् सत्काराद्यनुकूलपरिषहसहिष्णुता
•
વિશેષાર્થ :- દશવૈકાલિકસૂત્રના દશમા અધ્યયન મુજબ પ્રસ્તુત ૨૭ મી બત્રીસીમાં ગ્રંથકારશ્રી ભિક્ષુનું = સાધુનું સ્વરૂપ દર્શાવી રહેલ છે. આ ગાથામાં સહનશીલતા અને નિર્ભયતા- આ બે સાધુગુણ उपर लार आपवामां आवे छे. (२७/७)
* સહન કરે તે સાધુ
ગાથાર્થ :- આક્રોશ થવા છતાં અથવા હણાવા છતાં અથવા કપાવા છતાં પણ જે પૃથ્વી સમાન સ્વસ્થ રહે તથા જે શરીરનો ત્યાગ અને વિસર્જન કરે તેમજ નિયાણા અને કુતૂહલને જે ન કરે તે साधु उवाय (२७/८)
ટીકાર્થ ઃ- બીજાના ખરાબ વચનો વડે પોતાના ઉપર આક્રોશ થવા છતાં પણ અથવા લાકડી વગેરે વડે બીજાથી હણાવા છતાં પણ અથવા ખડગ-તલવાર વગેરે વડે કપાવા છતાં પણ જે પૃથ્વીની જેમ કોઈ પણ જાતનો પ્રતિકાર ન કરે તે સાધુ કહેવાય.
१. हस्तादर्शे 'हते' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org