________________
१८५४
• भिक्षोः सन्मानाद् भीतिः अपमाने च रतिः •
द्वात्रिंशिका - २७/७
← (उत्त. २।२४-२५) इति । इत्थमाक्रोशादिसहन एव कैवल्यसिद्ध्यादिः माषतुष- कूरगडुकादिवत् सम्भवेत् । प्रकृते सन्माननं परां हानिं योगः कुरुते यतः । जनेनाऽवमतो योगी योगसिद्धिञ्च विन्दति ।। ← (सं.गी.१० / ३२) इति संन्यासगीतावचनञ्चाऽवश्यं स्मर्तव्यम् । → पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत् । तथा चेत् ताड्यमानस्तु तदा भवति भैक्षभुक् ।। ← (ना.परि.३/१९) इति नारदपरिव्राजकोपनिषद्वचनमप्यत्र न विस्मर्तव्यम् ।
एतेन सन्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ।। ← ( नार. परि. ३/४०, म. स्मृ. २/१६२, रा.गी. १५/५४) इति नारदपरिव्राजकोपनिषद् -मनुस्मृति-रामगीतावचनमपि व्याख्यातम् । योगशास्त्रवृत्ती
आकृष्टोऽपि हि नाऽऽक्रोशेत् क्षमाश्रमणतां विदन् । प्रत्युताऽऽक्रोष्टरि यतिः चिन्तयेदुपकारिताम् ।। सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिर्न तु । जीवनाशात् क्रुधो दौष्ट्यात् क्षमया च गुणाऽर्जनात् ।।
← (यो.शा. ३/१५३ वृत्ति १२, १३) इति यदुक्तं तत्परिभावितचित्ततयाऽऽक्रोशपरिषहादीन् जैनभिक्षुः जयतीति भावः । परेषामपि सम्मतमिदम् । तदुक्तं नारदपरिव्राजकोपनिषदि संन्यासगीतायां रामगीतायाञ्च → न चेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् । क्रुध्यन्तं न प्रतिक्रुध्येदाकृष्टः कुशलं वदेत् ।। ← (ना.परि.३/४२, सं.गी.८/४९, रा.गी. १५/५६) इति । देहः तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः । क्व वृद्धिः क्व च वा हानिः तव चिन्मात्ररूपिणः ।। ← (अष्टा.गी. १५/१०) इति अष्टावक्रगीतावचनमपि तात्पर्यवृत्त्याऽत्र परिणतमवगन्तव्यम् ।
तथा दिव्वं मायं न सद्दहे ← ( आ. १ १८ १८ । ३९) इति आचाराङ्गवचनात्मसात्करणेन, → भयं परिजाणइ से णिग्गंथे ← ( आचा. २ । ३) इति आचाराङ्गवचनपरिणमनतः स्मशाने पितृवने प्रतिमास्थितः विधिना मासादिभिक्षुप्रतिमापरायणः भयेभ्यश्च = रौद्रभयहेतुभ्यश्च वैतालादिरूपाऽट्टहासादिभ्यो देहात्मभेदविज्ञानपरिणतिप्रभावेण न बिभेति । तदुक्तं दशवैकालिके
जो सहइ हु गामकंटए अक्कोस - पहार तज्जणाओ अ । भयभेरवसद्दसप्पहासे समसुह- दुक्खसहे अ जे स भिक्खू ।। पडिमं पडिवज्जिया मसाणे नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए अ निच्चं न सरीरं चाभिकंखए जे स भिक्खू || ← (द.वै.१०/११-१२ ) इति । एतावता सत्त भयद्वाणा पण्णत्ता । तं जहा ( १ ) इहलोगभए, (२) परलोकभए, (३) आदाणभए, (४) अकम्हाभए, (५) आजीवभए, (६) मरणभए, (७) असिलोगभए ← (सम ७।१, स्थानां. ७/५४९) इत्येवं स्थानाङ्ग - समवायाङ्गसूत्रोक्तानि भयान्यस्य न सन्तीति द्योतितम्, सर्वभूताऽभयदत्वात् । तदुक्तं नारदपरिव्राजकोपनिषदि संन्यासगीतायां च अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ।। ← ( ना. परि. ५/ १६, सं.गी.८/७७), → अभयं सर्वभूतेभ्यो भूतानामभयं यतः । तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन ।। ← (सं.गी. ९/८० ) इति । तदुक्तं वशिष्ठस्मृतौ अपि
अभयं सर्वभूतेभ्यो दवा
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org