SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ • आक्रोशादिसहने भावभिक्षुत्वम् • १८५३ आक्रोशादीन्महात्मा यः सहते ग्रामकण्टकान् । न बिभेति भयेभ्यश्च स्मशाने प्रतिमास्थितः ।।७।। ___ आक्रोशादीनिति । आक्रोशादीन् = आक्रोश-प्रहार-तर्जनान् ग्रामकण्टकान् ग्रामाणामिन्द्रियाणां कण्टकवद्दुःखहेतुत्वात् ।।७।। यिकक्षयोपशमात् । तदुक्तं पञ्चाशके → समभावो सामाइयं तण-कंचणसत्तु-मित्तविसओ त्ति । निरभिस्संगं चित्तं उचियपवित्तिपहाणं च ।। 6 (पंचा.११/५) इति । अध्यात्मोपनिषदि अपि → प्रारब्धाऽदृष्टजनिता सामायिकविवेकतः । क्रियाऽपि ज्ञानिनो व्यक्तामौचितीं नाऽतिवर्तते ।। 6 (अ.उप.२/३४) इति प्रोक्तम् । एतेन → अस्यौचित्याऽनुसारित्वात् प्रवृत्तिर्नाऽसती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ।। - (यो.बि.३४०) इति योगबिन्दुवचनमपि व्याख्यातम् । प्रकृते च → न य वुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते उवसंते अविहेडए जे स भिक्खू ।। - (द.वै.१०/१०) इति दशवैकालिकोक्तिरनुसन्धेया । अत्र च → ‘अविहेठकः' = न क्वचिदुचितेऽनादरवान् | क्रोधादीनां विश्लेषक इत्यन्ये - (द.वै.१०/१० वृ.)इति तद्वृत्तौ श्रीहरिभद्रसूरिः । अन्ये = श्रीजिनदासगणिमहत्तराः, तदुक्तं तैः दशवैकालिकचूर्णी → अविहेडए नाम जे परं अक्कोसतेप्पणादीहिं न विघेडयति से अविहेडए - (द.वै.चू.१०/१०)। ‘परे विग्गहविकधापसंगे सुस-मत्थो वि ण तालणादिना विहेढयति एवं अविहेढए' (द.वै.भा.चू.१०/१० अग.) इति अगस्त्यसिंहसूरिः दशवैकालिकप्राचीनतरचूर्णो व्याचष्टे ।।२७/६।। किञ्च ‘आक्रोशादीनि'ति । → मज्झत्थो निज्जरापेही समाहिमणुपालए - (आचा.१।४।४।२०) इति आचाराङ्गोक्तिपरिणमनतः, → उवसमसारं खु सामण्णं - (बृ.क.सू.१/३५) इति बृहत्कल्पसूत्राशयोपलम्भात्, → अकसायं खु चारित्तं, कसायसहितो न संजओ होइ - (बृ.क.भा. २७१२) इति बृहत्कल्पभाष्यतात्पर्यपरिशीलनाच्च संयमार्थी सन् य इन्द्रियाणां श्रोत्रादीनां कण्टकवद् दुःखहेतुत्वात् ग्रामकण्टकाः, तानेव स्वरूपत आह आक्रोश-प्रहार-तर्जनान् सहते । तत्र आक्रोशो यकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः । तदुक्तं उत्तराध्ययनसूत्रे → अक्कोसेज्जा परे भिक्खुं न तेसिं पडिसंजले । सरिसो होइ बालाणं, तम्हा भिक्खु न संजले ।। सोच्चा णं फरुसा भासा दारुणा गामकण्टगा । तुसिणीओ उवेहेज्जा न ताओ मणसीकरे ।। વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી તેની સંસ્કૃત ટીકા કરવામાં નથી આવેલ. પણ કષાયની મંદતા અને ઔચિત્યપાલન- આ બે બાબત ઉપર આ શ્લોકમાં ભાર આપવામાં આવેલ છે. ઉદ્ધતાઈ, ઉશૃંખલતા, સ્વચ્છંદતા, મનસ્વી વર્તન-વલણ સાધુના જીવનમાં ન હોય એવું અહીં સૂચવાયેલ છે. (૨૬) હ અભય હોય તે સાધુ હતુ ગાથાર્થ - ઈન્દ્રિયો માટે કાંટાસમાન એવા આક્રોશ વગેરેને જે સહન કરે તથા સ્મશાનમાં કાયોત્સર્ગધ્યાને રહેલા જે ભયોથી ડરે નહિ તે ભિક્ષુ કહેવાય. (૨૭/૭) ટીકાર્થ :- કાંટો જેમ પગ વગેરે અવયવોને દુઃખનું કારણ છે તેમ ઈન્દ્રિયોને દુઃખનું કારણ હોવાથી આક્રોશ, પ્રહાર, તર્જના વગેરેને અહીં કાંટાની ઉપમા આપેલ છે. બાકીની વિગત તે ગાથાર્થમાં સ્પષ્ટ છે.(૨૭૭) १. हस्तादर्श 'नक्रो...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy