________________
• संविभागकरणगुणोपदर्शनम् •
१८५१
भुक्त्वा स्वाध्यायकृच्च इत्यत्र 'च' शब्दाच्छेषाऽनुष्ठानपरत्वग्रहेण नित्याऽप्रमादित्वमुक्तम् ।।५।। बुद्ध्या तन्निर्व्याजप्रशस्तस्नेहनिष्पत्तिः उक्ता । अन्यथा सम्यग्दर्शनहान्याद्यापत्तेः, अवच्छलत्ते य दंसणहाणी ← (बृ.क.भा. २७११) इति बृहत्कल्पभाष्यवचनात् । आहारादिसंविभागादिद्वारा साधर्मिकवात्सल्यमेव जिनशासनसारतयाऽभिमतम् । तदुक्तं श्रावकप्रज्ञप्ती साहम्मियथिरकरणं वच्छल्ले सासणस्स सारो त्ति । मग्गसहायत्तणओ तहा अणासो य धम्माओ ।। ← ( श्रा. प्र. ३४२ ) इति । प्रकृते असंविभागी अचियत्ते अविणीए त्ति वुच्चइ ← (उत्त. ११ / ९) इति, असंविभागी अचियत्ते पावसमणेत्ति वुच्चइ ← ( उत्त. १७/११ ) इति च उत्तराध्ययनोक्तिरपि स्मर्तव्या । ततश्चाऽसंविभागेऽपवर्गाऽसम्भव एव। इदमेवाऽभिप्रेत्य दशवैकालिके असंविभागी न हु तस्स मोक्खो ← (द.वै.९ ।२।२२) इत्युक्तम् । इदं साधर्मिकवात्सल्यं सत्यप्रेमकार्यतयाऽभिमतम् । एतेन जैनसङ्घस्य वात्सल्यं सत्यप्रेम्णा विधीयते। साधूनां श्रावकाणां च वैयावृत्त्यं स्वभावतः ।। ← ( प्रे.गी. ३६८) इति प्रेमगीतावचनमपि व्याख्यातम् ।
यद्यपि भिक्षुको भिक्षुकान्तरं याचितुं नैवाऽर्हति सति दानसमर्थे गृहस्थे । सम्मतञ्चेदं परेषामपि तदुक्तं शाबरभाष्ये → न च भिक्षुका भिक्षुकादाकाङ्क्षन्ति सत्यन्यस्मिन्प्रसवसमर्थेऽभिक्षुके ← (मी.सू.अधिकरणसूत्र- ११ शा.भा.) इति । तथापि स्वभवनिस्तारकामनया 'जइ मे अणुग्गहं कुज्जा' (द.वै.५/१/९४) इति भावनया भिक्षुणा भिक्षुकान्तरभक्तिः कर्तव्यैव । संविभागशीलत्वादेवाऽस्य तृतीयमहाव्रताऽऽराधनोपपत्तेः । तदुक्तं प्रश्नव्याकरणे संविभागसीले, संगहोग्गहकुसले से तारिसे आराहते वयमिणं ← (प्र.व्या. २ ।८ ।२६) इति । अल्पेऽपि भक्त-पानादिलाभे संविभागकरणतः श्रमणधर्मस्य निरन्तरस्मरणीयत्व-चित्तप्रसन्नतादायकत्वाऽऽचारगुरुत्व-सङ्ग्राह्यत्व-कलहाऽनुत्पादकत्व-सङ्घटनकारित्वादिकं स्वसंवेदनसिद्धं सम्पद्यते ।
बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये सामग्रामसूत्रे सुगतेन आनन्द ! भिक्खु ये ते लाभा धम्मिका धम्म लद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अपटिविभत्तभोगी होती, सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी । अयम्मि धम्मो सारणीयो पियकरणो गुरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति ← (म.नि.३/१/४/५४, पृ.३६) इति । ' पत्तपरियापन्नमत्तम्पि पात्रपर्यापन्नमात्रमपि, अतिस्वल्पमपीति यावत्, अपटिविभत्तभोगी संविभागभोजी' शिष्टं स्पष्टं भा
I
वितार्थं च ।
तथा पूर्वोक्तं (पृ. ४००) तहेव असणं पाणगं वा विविहं खाइम साइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्जायरए जे स भिक्खू ।। ← ( द.वै.१०/९) इति दशवैकालिकवचनं चेतसिकृत्य भुक्त्वा च भुच्चा पिच्चा सुहं सुवई पावसमणे त्ति वच्चइ ← ( उत्त. १७/३) इति उत्तराध्ययनसूत्रस्मरणेन न स्वपिति, न वा 'लब्धिमानहमेतादृशसुदुर्लभाऽशनादिकमानीतवानिति स्वात्मोत्कर्षं विदधाति, न वा स्त्रीकथा-भक्तकथादिकमारभते किन्तु स्वाध्यायं करोति स्वाध्यायकृत् । श्लोकचतुर्थपादात् स्थण्डिलभूमिनिर्गम-प्रतिलेखन-ग्लानवैयावृत्त्याद्यन्यविहितव्यापारबભગવંત સ્વતુલ્ય સાધર્મિક એવા અન્ય સાધુ પ્રત્યે વાત્સલ્યને સિદ્ધ કરનારા હોય છે - આવું સૂચન અહીં પ્રાપ્ત થાય છે. તથા ‘ગોચરી વાપરીને સ્વાધ્યાય કરે' આવું કથન ઉપલક્ષણ હોવાથી સ્વાધ્યાય સિવાયની પણ અન્ય યોગસાધનામાં સાધુ ભગવંત તત્પર હોય છે - એવું સૂચિત થાય છે. કહેવાનો
'च' शब्दात् शेषाऽनुष्ठानपरत्वग्रहेण
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=