________________
१८५०
• अशनादिसन्निधिकरणे संसारित्वापत्तिः • द्वात्रिंशिका-२७/५ न यश्चाऽऽगामिनेऽर्थाय सन्निधत्तेऽशनादिकम् । साधर्मिकान्निमन्त्र्यैव भुक्त्वा स्वाध्यायकृच्च यः।।५।।
नेति । आगामिनेऽर्थाय = श्वः परश्वो वा भाविने प्रयोजनाय । निमन्त्र्यैव इत्यनेन स्वात्मतुल्यसाधर्मिकवात्सल्यसिद्धिरुक्ता ।
तथा 'ने'ति । → तणकटेण व अग्गी, लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं भोयणविहीए ।। - (आ.प्र.५१) इति आतुरप्रत्याख्यानाधुक्तिविभावनेन, → भेउरेसु न रज्जेज्जा, कामेसु बहुयरेसु वा + (आचा. १।४।४।३४) इति आचाराङ्गोक्तिपरिणमनेन, → सन्निहीसंचओ चेव वज्जेयव्वो 6 (उत्त. १९/३१) इति उत्तराध्ययनसूत्रोक्तिपालनोद्देशेन च शास्त्रविहितव्यापारतो लब्धं अशनादिकं उद्गमादिदोषशुद्धं यः भाविने प्रयोजनाय न = नैव स्वयं सन्निधत्ते, उपलक्षणात् नाऽन्यैः निधापयति, स्थापयन्तं वाऽन्यं नाऽनुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरित्यत्र तात्पर्यम् । तदुक्तं दशवैकालिके 'तहेव असणं पाणगं वा विविहं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ।। - (द.वै.१०/८) इति । अशनादिसञ्चयकरणे गृहस्थत्वाऽऽपत्तिः । तदुक्तं दशवैकालिके एव → जे सिआ संनिहिकामे गिही, पव्वइए न से ।। 6 (द.वै.६/१९) इति । किञ्चाऽशनाद्यौषधादिसञ्चयकरणे परिग्रहनियोगेन संसारपातादयोऽपि दोषा अनिवारितप्रसराः। तदुक्तं व्यवहारसूत्रभाष्ये → परिग्गहे निजुज्जंता परिचत्ता उ संजया । भारादिमाइया दोसा पेहाऽपेहकयाइया ।। अहवा तप्पडिबद्धा य अच्छंते नियमादयो । अणुग्गहो गिहत्थाणं सया वि ताण होइ णो ।। पडिसिद्धा संनिही जेहिं पूव्वायरिएहिं ते वि ओ । अण्णाणाउ कया एवं, अणवत्थापसंगतो ।। वंतं निसेवियं होइ गिण्हंता संचयं पुणो । मिच्छत्तं, 'न जहावादी न तहाकारी भवंति' उ ।। एए अन्ने य जम्हा दोसा हुंति सवित्थरा । तम्हा ओसहमादीणं संचयं तु न कुव्वए ।।
6 (व्य.सू.भा.उद्दे.५/११५-११९) इति । तथा → 'जइ मे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ ।। साहवो तो चिअत्तेणं निमंतिज्ज जहक्कम ।
6 (दश.वै.५/१/९४-९५) इति दशवैकालिकवचनमनुसृत्य तमेवोपलब्धमशनादिकं साधर्मिकान् साधून आन्तरप्रीत्या निमन्त्र्यैव भुङ्क्ते । अनेन स्वाऽऽत्मतुल्यसाधर्मिकवात्सल्यसिद्धिः = स्वात्मतुल्यत्वકરવા માટે “ભાવ” શબ્દ સમ્યગ્દર્શનના વિશેષણરૂપે પ્રયોજાયેલ છે. મતલબ કે નિશ્ચયનયનું સમ્યગ્દર્શન જેની પાસે હોય તે સાધુ કહેવાય. નિશ્ચયનય છઠ્ઠા અને સાતમાં ગુણસ્થાનકે સમ્યગ્દર્શન માને છે. આવું ભાવ સમકિત ધારણ કરે તે સાધુ કહેવાય. (૨૭/૪)
@ નિસ્પૃહ બનીને સાધર્મિક ભક્તિ રે તે સાધુ હ ગાથાર્થ :- જે ભવિષ્યના પ્રયોજન માટે ભોજન વગેરેને રાત્રે સંઘરી ન રાખે તથા સાધર્મિકોને નિમંત્રણ આપીને જ ગોચરી વાપરે તથા વાપરીને જે સ્વાધ્યાય કરે તે ભિક્ષુ કહેવાય. (૨૭/૫)
ટીકાર્ય - આવતી કાલ કે પરમ દિવસના પ્રયોજન માટે ભોજન-પાણીને રાત્રે પોતાની પાસે સાધુ ન રાખે. “સાધુ પોતાના સાધર્મિકોને આમંત્રણ આપીને જ ગોચરી વાપરે” આવું કહેવા દ્વારા સાધુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org