________________
• सम्यग्दृष्टित्वे सति सदाऽमूढत्वं उ भिक्षुत्वम् •
१८४९
निर्जातरूपरजतो गृहियोगं च वर्जयेत् । सम्यग्दृष्टिः सदाऽमूढस्तपः संयमबुद्धिषु ||४|| निर्जातरूपेति । निर्जातरूपरजतो = निर्गतसुवर्णरूप्यः । परिग्रहान्तरनिर्गमोपलक्षणमेतत् । गृहियोगं मूर्च्छया गृहस्थसम्बन्धं ( च वर्जयेत् ) । सम्यग्दृष्टिः भावसम्यग्दर्शनी यः ||४||
← (ना. परि. ३/३३-३४-३५, रा.गी. १५ / ४०-४१) इति नारदपरिव्राजकोपनिषद् -रामगीतावचनप्रबन्धोऽपि प्रकृते यथागममनुयोज्यः । कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु । प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ।। ← ( म. भा. शान्ति. १५१/३) इति महाभारतवचनमपि भावनीयम् ।।२७/३ ।। तथा- ‘निर्जाते’ति । → समलेड-कंचणे भिक्खू ← (उत्त. ३५ / १३ ) इति उत्तराध्ययनसूत्रतात्पर्यपरिणमनतो निर्गतसुवर्णरूप्यः इति परिग्रहान्तरनिर्गमोपलक्षणं = धन-धान्य-क्षेत्र - वास्तु-द्विपद-चतुष्पदादिपरिग्रहपरित्यागसूचकं एतत् ‘निर्जातरूपरजत' इतिपदम् । मूर्च्छया = ममत्वबुद्ध्या गृहस्थसम्बन्धं आनयन-प्रेषण-सम्भाषण-कथाप्रबन्ध-पत्रव्यवहार-ध्वनियन्त्राऽक्षरयन्त्रादिप्रयोगकारणादिलक्षणं सागारिकपरिचयं यद्वा पचन-क्रयणादिलक्षणं गृहियोगं वर्जयेत् परित्यजेत् । ममत्वबुद्धित्यागे ममत्वत्यागो नियत एव । तदुक्तं आचारागे जे ममाइयमई जहाइ, से जहाइ ममाइयं ← ( आचा. १ ।२ ।६) इति । प्रकृतार्थकदम्बको दशवैकालिके अहणे निज्जायरूवरयए गिहिजोगं परिवज्जए जे स भिक्खू
← (द.वै.१०/६ ) इत्येवमुक्तः ।
=
=
=
=
-
तथा भावसम्यग्दर्शनी ग्रन्थिभेदलभ्यपारमार्थिकसम्यग्दर्शनवान् यद्वाऽभिन्नरत्नत्रयलक्षणनैश्चयिकसम्यग्दर्शनशाली। अविरतसम्यग्दृष्टिस्तु कदाचिन्मूढोऽपि स्यात् । तदुक्तं आवश्यकनिर्युक्तौ सुवि सम्मद्दिट्ठी न सिज्झई चरण-करणपरिहीणो । जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ।। ← ( आ.नि. ११७८) इति । अयन्तु तपः-संयम- बुद्धिषु सदा = निरन्तरं सर्वत्र अमूढः परतीर्थिकविभवादिभिः अविप्लुतः सन्नेवं मन्यते ‘अस्त्येव बाह्याभ्यन्तरकर्ममलाऽपनयनजलकल्पं तपः, नवकर्मानुपादानरूपः सप्तदशविधः संयमः, ज्ञानञ्च हेयोपादेयविषयमतीन्द्रियेष्वपि धर्माऽधर्मादिषु तानि चेहैव जिनशासने याथातथ्येन सङ्गतानि, नान्यत्र तथा' । इत्थञ्च दृढभावः सन् तपसा धुनोति प्रागुपार्जितपापम् । तदुक्तं दशवैकालिक एव → सम्मद्दिट्ठी सया अमूढे अत्थि हु नाणे तवे संजमे अ । तवसा धुणइ पुराणपावगं, मणवय -कायसुसंकुडे जे स भिक्खू ।। ← ( द. वै.१०/७) इति पूर्वोक्तं (पृ. १६४८ ) स्मर्तव्यम् ।।२७/४।। ♦ અપરિગ્રહી અને અમૂઢ હોય તે સાધુ
गाथार्थ :- ट्ठे सोनुं-यांही न राजे, गृहस्थसंबंधने के छोडे, सम्यग्दर्शनवाणा होय, तथा तपસંયમબુદ્ધિને વિશે જે સદા અસંમૂઢ હોય તે ભિક્ષુ કહેવાય. (૨૭/૪)
ટીકાર્થ :- ‘સોના-ચાંદીથી જે મુક્ત હોય.’ આવું વિશેષણ ધન-ધાન્ય વગેરે અન્ય પરિગ્રહમાંથી સાધુનો છૂટકારો થયેલ હોય તેનું સૂચક ઉપલક્ષક છે. તથા સાધુ મૂર્છાથી થતો ગૃહસ્થ સાથેનો સંબંધ-પરિચય છોડે. તથા મૂળગાથામાં સાધુને સમ્યગ્દષ્ટિ કહેલ છે તે ભાવ સમ્યગ્દર્શનની અપેક્ષાએ સમજવું. (૨૭૪) વિશેષાર્થ :- ધન આદિ નવવિધ બાહ્ય પરિગ્રહને અને કષાય-નોકષાય-મિથ્યાત્વસ્વરૂપ ૧૪ પ્રકારના અત્યંતર પરિગ્રહને સાધુ છોડે. સમ્યગ્દર્શન તો ચોથા-પાંચમા ગુણસ્થાનકે પણ હોય છે. તેની બાદબાકી १. मुद्रितप्रतौ ' तथा सं...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org