SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८४८ • नित्योचितयोगवान् भिक्षुः • द्वात्रिंशिका-२७/३ ___बुद्धोक्तेन = जिनवचनेन ध्रुवयोगी = नित्योचितयोगवान् (=बुद्धोक्तध्रुवयोगी) ।।३।। स्पष्टम् । इत्थमेव जिनसमयस्पर्शनोपपत्तेर्युक्ततरमेतत्प्रतिपादनम् । यथोक्तं सूत्रकृताङ्गसूत्रे → एयं णाणिणो सारं जं न हिंसति किंचणं । अहिंसा समयं चेव एतावंतं वियाणिया ।। - (सू.कृ. १।११।१०) इति । → अहिंसए संजए सुसाहू - (प्र.व्या.२ ।६।२३) इति प्रश्नव्याकरणसूत्रोक्तिरप्यत्र स्मर्तव्या । प्रकृते → समः शत्रौ तथा मित्रे तथा मानाऽपमानयोः । भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।। यस्तु मोहेन चाऽन्यस्मादेकान्नादी भवेद् यदि । न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ।। (सं.गी.६/१०४-१०५) इति संन्यासगीतावचनमप्यनयोज्यमागमाऽनुसारेण । अकृत-कारिताऽनमोदितं कल्प्यमपि मितमेव भुङ्क्तेऽसङ्गभावेन व्रणलेपाऽक्षोपाङ्ग-सर्प-पुत्रमांस-भेषजादिवत् संयमयात्रानिर्वाहार्थमेव । तदुक्तं प्रशमरतौ → व्रणलेपाऽक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाऽभ्यवहरेदाहारं पुत्रपलवच्च ।। - (प्र.रति.१३५) इति ।→ औषधवदशनमाचरेत् + (आरु.३,सं.१) इति आरुणिकोपनिषत्-संन्यासोपनिषद्वचनमप्यत्राऽनुसन्धेयम् । तथा ‘काले कालं समायरे' (द.वै.५/२/४, उत्त.१/३१) इत्यादिरूपेण पूर्वोक्तेन(पृ.२३) जिनवचनेन = तीर्थकरवचनेन करणभूतेन नित्योचितयोगवान् भवति यथाऽऽगममेवेति भावः । तथा यः चतुरः कषायान् क्रोधादीन् तत्प्रतिपक्षाऽभ्यासेन वमेत् = परित्यजेत् । तदुक्तं दशवैकालिक एव ‘चत्तारि वमे सया कसाए धुवजोगी हविज्ज बुद्धवयणे' (द.वै.१०/६) इति । अत्र सप्तमी तृतीयार्थे द्रष्टव्या । प्रकृते श्रीजिनदासगणिमहत्तरकृतदशवैकालिकचूर्णिलेशस्त्वेवम् → धुवजोगी णाम जो खण-लव-मुहुत्तं पडिबुज्जमाणादिगुणजुत्तो सो धुवजोगी भवइ । अहवा जे पडिलेहणादिसंजमजोगा, तेसु धुवजोगी भवेज्जा, ण ते अण्णं कुज्जा अण्णदा न कुज्जा । अहवा मण-वयण-कायए जोगे झुंजेमाणो आउत्तो मुंजेज्जा । अहवा बुद्धाणं वयणं दुवालसंग, तंमि धुवजोगी भवेज्जा, सुओवउत्तो सव्वकालं भवेज्जत्ति । धुवगहणेण च उप्पादादिधुवस्स गहणं कयं (द.वै.१०/६ चू.) इति । प्रकृते → कामः क्रोधस्तथा दो लोभ-मोहादयश्च ये । तांस्तु दोषान् परित्यज्य परिव्राट् निर्ममो भवेत् ।। राग-द्वेषवियुक्तात्मा समलोष्टाऽश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्च मुनिः स्यात् सर्वनिस्स्पृहः ।। दम्भाऽहङ्कार-निर्मुक्तो हिंसा-पैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ।। તથા જિનવચન મુજબ નિત્ય કર્તવ્ય એવા ઉચિત યોગોથી જે સંપન્ન હોય તે ભિક્ષુ કહેવાય. (२७/3) વિશેષાર્થ:- જીવનભર કરણ-કરાવણ-અનુમોદનસ્વરૂપે મન-વચન-કાયાથી સાવદ્ય પ્રવૃત્તિનો ત્યાગ હોવાના કારણે સાધુ પોતાને ઉદેશીને બનાવેલી ગોચરી વાપરતા નથી. ગોચરીના ૪ર દોષને સૂચવવા માટે “ઔદેશિક એવો નિર્દેશ ગ્રંથકારશ્રીએ કરેલ છે. ભિક્ષુ શબ્દ અહીં ભિખારી અર્થમાં નહિ પણ साधु-संयमी-मुनि-महात्मा अर्थमा प्रयोगायेस छ - भावात पास ध्यानमा रामवी. (२७/3) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy