________________
१८४६
• भिक्षुः स्वतुल्यसर्वदर्शी
रोइअनायपुत्तवयणे अत्तसमे मन्निज्ज छप्पि का । पंच य फासे महव्वयाई पंचासवसंवरे जे स भिक्खू ।।
•
बौद्धानामपि सम्मतमिदम् । तदुक्तं सुत्तनिपाते अत्तानं उपमं कत्वा न हनेय्य न घातये ।। ← → यो न हन्ति न घातेति न जिनाति न जायते ← ( इ.यु. पृष्ठ.२०) इत्युक्तम् । धम्मपदे अपि
Jain Education International
← (द.वै.१०/२,३, ५) इति । यथोक्तं छान्दोग्योपनिषदिन हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत् सर्वभूतानि यः पश्यति स धार्मिकः ।। ← (छा. उप. अ. ८) अष्टावक्रगीतायां अपि → सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चात्मनि ← (अ.गी. ३/५) इत्युक्तमिति पूर्वं (पृ.१०११) उक्तम् ।
प्रकृते सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं सन्ते । तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्धधानः ।। ← ( सं .गी. ९/८८) इति हंसाख्यसंन्यासिदशाप्रतिपादकं संन्यासगीतावचनं, → आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ! | सुखं वा यदि वा दुःखं स योगी परमो मतः ।। ← (भ.गी. ६ / ३२ ) इति, सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । ईक्षते योगयुक्ताऽऽत्मा सर्वत्र समदर्शनः।। ← (भ.गी.६ / २९) इति च भगवद्गीतावचनं रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः। दृढबोधश्च धीरश्च स गच्छेत् परमं पदम् ।। ← ( अव.गी. २ / २४ ) इति अवधूतगीतावचनं यदा न कुरुते भावं सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ।। ← ( ना. परि. ३ /१९) इति, → आत्मावत्सर्वभूतानि पश्यन् भिक्षुश्वरेन्महीम् ← (ना. परि. ४/२२) इति च नारदपरिव्राजकोपनिषद्वचनं, → यस्मिन् सर्वभूतान्यात्मैवाऽभूद् विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।। ← (ईशा. ७) ईशावास्योपनिषद्वचनं स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव प्रोक्ता वेदान्तवादिभिः ।। ← ( जा. द. १ / १५ ) इति जाबालदर्शनोपनिषद्वचनं यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षोऽमर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ।। ← ( वरा. ४ / २६ ) इति वराहोपनिषद्वचनं सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नाऽन्येन हेतुना ।। ← ( कैव. १०) पूर्वोक्तं (पृ.१५९४) इति कैवल्योपनिषद्वचनं ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ।। ← ( मन्त्रि . १६) इति मन्त्रिकोपनिषद्वचनं, → यः समः सर्वभूतेषु जीवितं तस्य शोभते ← ( सं . उप. २ / ३९) इति संन्यासोपनिषद्वचनं, आत्मवत् सर्वभूतानि ← (अन्न. १/३८) इति अन्नपूर्णोपनिषद्वचनं, आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ← ( आ. स्मृ. १०/११) इति आपस्तम्बस्मृतिवचनं सर्वभूतात्मभूतात्मा यत्र पश्यति धीमतिः । शोकमोहौ च किं तस्य ह्येकत्वमनुपश्यतः ।। ← (बृ.पा. १२/२९७) इति बृहत्पराशरस्मृतिवचनं सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेताऽनन्यभावेन भूतेष्विव तदात्मताम् ।। ← (क.दे.सं.४/४२) इति कपिलदेवहूतिसंवादवचनं, आत्मानं सर्वभूतस्थं पश्यन् कुर्वन्न लिप्यते ← (ग.गी. ४/७) इति गणेशगीतावचनं, प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन गन्तव्यमात्मविद्भिर्महात्मभिः ।। ← (वि.धर्मो.खं.३/अ.२६८-मार्कण्डेय - वज्रसंवाद - ११ ) इति विष्णुधर्मोत्तरे च मार्कण्डेयवचनमपि भावनीयं स्वपरसमयवेदिभिः ।
द्वात्रिंशिका - २७/२
यथा अहं तथा एते यथा एते तथा अहं । (सु.नि. ३/३७/२७ पृ.७५ ) इति । इतिवृत्तके अपि । मित्तं सो सब्बभूतेषु वेरं तस्स न केनचीति । । सव्वे तसन्ति दण्डस्स सव्वे भायन्ति मच्चुणो ।
www.jainelibrary.org
For Private & Personal Use Only