________________
• परपीडाकरणे ज्ञानवैफल्यम् •
१८४५ पृथिव्यादींश्च षटकायान् सुखेच्छूनसुखद्विषः। गणयित्वाऽऽत्मतुल्यान् यो महाव्रतरतो भवेत् ।।२।।
पृथिव्यादीनिति- व्यक्तः ।।२।। → जह मे इट्ठाणिढे सुहासुहे तह सव्वजीवाणं - (आ.चू.१/१/६) इति आचाराङ्गचूर्णिवचनात्, → जं इच्छसि अप्पणतो, जं च ण इच्छसि अप्पणतो । तं इच्छ परस्स वि या, एत्तियगं जिणसासणयं ।। (बृ.क.भा.४५८४) इति बृहत्कल्पभाष्यवचनात्, → ते आततो पासति सव्वलोए 6 (सू.कृ.१।१२।१८) इति सूत्रकृताङ्गवचनात्, → 'सव्वे जीवा वि इच्छंति जीविउं न मरिज्जिउं' - (दश.वै.६/११) इति दशवैकालिकवचनात्, → आत्मवत् सर्वभूतेषु वर्तनं परमार्थतः । उत्तमा सैव मद्भक्तिः सर्वदोषनिवारिका ।। 6 (म.गी.२/१०८) इति महावीरगीतावचनात्, → आत्मवत् सर्वभूतेषु (यो.शा.२/२०) इति योगशास्त्रवचनाच्च सुखेच्छून् = जीवितादिसुखार्थिनः असुखद्विषः = दुःखद्विषः पृथिव्यादीन् = पृथिवी-जलाऽनलाऽनिल-वनस्पति-त्रसलक्षणान् षटकायान् आत्मतुल्यान् = स्वसमानान् गणयित्वा = हृदयतोऽभ्युपगम्य यो महाव्रतरतः = सर्वप्राणातिपातविरमणादिपञ्चमहाव्रतनिरतः पञ्चाऽऽश्रवव्युपरतश्च भवेत्।। ____ अनेन ज्ञानफलमाविष्कृतम् । तदुक्तं सम्बोधप्रकरणे → किं तीए पढियाए पयकोडिए पलालभूयाए । जं इत्तियं न नायं परस्स पीडा न कायव्वा ।। - (सं.प्र.७/१४) । तदुक्तं प्रश्नव्याकरणसूत्रे अपि → सव्वजगजीवरक्खणदयट्ठताए पावयणं भगवया सुकहियं (प्र.व्या.२।६।२२) इति । तदुक्तं भक्तपरिज्ञाप्रकीर्णके अपि → जह ते न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । सव्वायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ।। (भ.प.प्र.९०) इति । तदुक्तं कृष्णगीतायामपि → आत्मवत्सर्वलोकेषु वर्तनं जैनधर्मिभिः - (कृ.गी.२८४) इति । परेषामपि सम्मतमिदम् । तदुक्तं महाभारते → प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा 6 (म.भा.अनुशा.११५/१९) इति । → सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ।। (म.भा.शांति.२४५/२१) इति महाभारतवचनं, → आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ।। - (भा.पु.३/२४/४६) इति भागवतमहापुराणवचनं, → विश्वरूपं निजात्मानं भावयन्तो ह्यपेक्षया । आत्मवद् विश्वजीवाँश्च पश्यन्ति ब्रह्मभावतः ।। (अध्या.गी.१२९) इति च अध्यात्मगीतावचनं न विस्मर्तव्यमत्र । अत एवाऽयमेव भिक्षुः सुखी लोके । तदुक्तं मैत्रायण्युपनिषदि → परेषु आत्मवद् विगतभयो निष्कामोऽक्षय्यमपरिमितं सुखं आक्रम्य तिष्ठति - (मैत्रा.६/३०) इति । तदुक्तं दशवकालिके→
पुढविं न खणे न खणावए, सीओदगं न पिए न पिआवए । अगणिसत्थं जहा सुनिसिअं, तं न जले न जलावए जे स भिक्खू ।। अनिलेण न वीए न वीयावए, हरियाणि न छिंदे न छिंदावए । बीआणि सया विवज्जयंतो, सच्चित्तं नाऽऽहारए जे स भिक्खू ।।
૪ આત્મવત્ સર્વભૂતેષ - માન્યતા જીવનમાં ઉતારે તે સાધુ છે ગાથાર્થ :- સુખેચ્છ અને દુઃખષી એવા પૃથ્વી વગેરે પજીવનિકાયને પોતાના સમાન ગણીને જે મહાવ્રતમાં રક્ત હોય તે ભિક્ષુ કહેવાય. (૨૨)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org