________________
• भिक्षोः भोगजम्बालाऽनभिवाञ्छा •
द्वात्रिंशिका - २७/१
१८४४ भविष्यसि । । ← (म.भा.शांति. १७७/२५) इति प्रागपीहैव ( द्वा. द्वा. १२/२३ पृ. ८९३) दर्शितम् । प्रकृते → असङ्कल्पात् जयेत् कामं क्रोधं कामविवर्जनात् | अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्षणात् ।। ← (सं.गी. ९ / २९) इति संन्यासगीतावचनमप्यनुसन्धेयम् ।
युक्तञ्चैतत् यतः तद्वशगो हि नियमेन वान्तं प्रत्यापिबति । अतो जिनप्रवचनपरिशीलनकृतचित्तसमाधानतः सर्वथा स्त्रीत्यागात् 'स भावभिक्षुः भण्यते' इति वक्ष्यमाणपदवृन्दं ( द्वा.द्वा.२७/१७ पृ. १८६९) अत्राऽन्वेयम्। एवमग्रेऽपि बोध्यम् । तदुक्तं दशवैकालिकसूत्रे निक्खम्ममाणाइ अ बुद्धवयणे निच्चं चित्तसमाहिओ हविज्जा । इत्थीण वसं न आवि गच्छे वंतं नो पडिआयइ जे स भिक्खू ।। ← ( द.वै. १० / १ ) इति । ब्रह्मचर्यस्य जो देइ कणयकोडिं अहवा कारेइ कणयजिणभवणं । तस् न तत्तियं पुन्नं जत्तियं बंभव्वए धरिए ।। ← (सं. स. ५६ ) इति सम्बोधसप्ततिकावचनेन महाफलत्वात्, → बंभचेरं उत्तमतव-नियम - णाण- दंसण-चरित्त-सम्मत्त - विणयमूलं ← (प्र.व्या. २।९।२७) इति प्रश्नव्याकरणसूत्रवचनेन मोक्षौपयिकतपो-नियम-ज्ञानादिमूलत्वात् कामभोगा हु दुज्जया ← ( उत्त. १६ । १५) इति उत्तराध्ययनसूत्रेण अतिदुष्करत्वात्, वयाणं सेट्ठे बंभचेरं ← (प्र.व्या. २ ।४), स एव भिक्खू जो सुद्धं चरति बंभचेरं ← (प्र.व्या. २/९/२७ ) इति प्रश्नव्याकरणसूत्रवचनेन प्रधानगुणत्वाच्च प्रथममुपन्यासः, वयः परिपाकादिनाऽपि तत्पालनस्य दुष्करत्वमेव । तदुक्तं बृहत्कल्पभाष्येन वओ इत्थ पमाणं, न तवस्सित्तं सुयं न परियाओ ← (बृ.क.भा. २१००) इति । → दुक्खं बंभव्वयं घोरं ← ( उत्त. १९ / ३३ ) इति उत्तराध्ययनसूत्रोक्तिरप्यत्र साक्षिणी वर्तते ।
यथोक्तं आचाराङ्गे अपि कामा दुरतिक्कमा ← ( आचा. १ ।२।५।९२ ) इति । सर्वथा स्त्रीत्यागादेवाऽऽसन्नगामित्वमस्याऽभिव्यज्यते । तदुक्तं सूत्रकृताङ्गे इत्थिओ जे ण सेवंति आदिमोक्खा हु ते जणा ← ( सूत्र . १/१५/९) इति । अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युसमा अमी हि चत्वारः । । ← (सु. ल. पृ. १२२ ) इति सुभाषितसुधानन्दलहरीवचनमप्यत्र स्मर्तव्यम् । यथोक्तं शीलप्राभृते अपि सीलं रक्खंताणं दंसणसुद्धाणं दढचरित्ताणं । अस्थि धुवं णिव्वाणं विसएसु विरत्तचित्ताणं ।। ← (शी. प्रा. १२) इति ।
यद्वा कामपारगामित्वात्ते नयान्तराऽभिप्रायेण मुक्ता एवाऽवसेयाः । तदुक्तं आचाराङ्गे विमुत्ता हु ते जणा जे जणा पारगामिणो ← ( आचा. १।२।२७४ ) इति । प्रकृते यस्स नित्तिणो पंको मद्दितो कामकण्टको । मोहक्खयं अनुप्पत्तो सुख- दुक्खेसु न वेधति स भिक्खू ।। ← (उ.३/ २) इति उदानवचनमपि बौद्धतन्त्राऽनुसारेणाऽत्राऽनुयोज्यम् ।।२७ / १ ।।
तथा 'पृथिव्यादींश्चे 'ति । सव्वे पाणा पियाउया सुहसाया दुक्खपडिकूला अप्पियवहा । पियजीविणो जीविउकामा सव्वेसिं जीवियं पियं ।। ( आचा. २ / ३ / ८१ ) ← इति आचाराङ्गसूत्रवचनात्,
વિશેષાર્થ :- ‘તે ભિક્ષુ કહેવાય છે' આ શબ્દ ૧૭ મી ગાથામાં છે. તેનો ૧ થી ૧૬ ગાથામાં પણ સંબંધ જોડવાનો છે. આ વાત વાચકવર્ગે ધ્યાનમાં રાખવી. બ્રહ્મચર્યનું નિર્મળ પાલન સંયમસાધનાનો ભાવપ્રાણ કહેવાય છે. માટે આ ગાથામાં તેનો નિર્દેશ સૌપ્રથમ કરેલ છે. તેનો ઉપાય છે ગુરુવચનપરતંત્રતા ગાથાના પૂર્વાર્ધ દ્વારા આ બાબતનો નિર્દેશ થાય છે. (૨૭/૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org