________________
• भिक्षुः गुरुवचनप्रणिहितः •
१८४३ ।। अथ भिक्षुद्वात्रिंशिका ॥२७॥ अनन्तरं योगमाहात्म्यमुपदर्शितं तच्च भिक्षौ सम्भवतीति तत्स्वरूपमिहोच्यते - नित्यं चेतः समाधाय यो निष्क्रम्य गुरूदिते । प्रत्यापिबति नो वान्तमवशः' कुटिलभ्रुवाम् ॥१॥
नित्यमिति । यो निष्क्रम्य द्रव्यभावगृहात् योग्यतायां सत्यां गुरूदिते = ज्ञानवृद्धवचने नित्यं = निरन्तरं चेतः समाधाय = प्रणिधाय वान्तं = परित्यक्तं विषयजम्बालं नो = नैव प्रत्यापिबति = पुनराद्रियते अवशः कुटिलभ्रुवां = पुरन्ध्रीणाम् ।।१।।
नयलता, महायोगविभूतीनां सूकरीविष्ठया समम् । तुल्यता भासते यस्य तं भिक्षु वर्णयाम्यहम् ।।१।। ___ तच्च = योगमाहात्म्यं हि भिक्षी एव परमार्थतः सम्भवतीति हेतोः तत्स्वरूपं = भिक्षुस्वरूपं इह दशवकालिकसूत्रदशमाऽध्ययनाऽनुसारेण सप्तविंशतितमद्वात्रिंशिकायां उच्यते- 'नित्यमिति । द्रव्यभावगृहात् = काष्ठेष्टकादिसंयोगनिर्मितद्रव्यगृहात् संसाराऽऽधारत्वेन च हिंसा-मृषावादादिलक्षणाद् भावगृहात् यः तीर्थ-कराद्युपदेशेन योग्यतायां (द्वा.द्वा.१९/१२ भाग-५ पृ.१२९०) प्रागुक्ताऽऽर्यदेशोत्पन्न-विशिष्टजातिकुलान्वितक्षीणप्रायकर्ममलादि-षोडशविधमुमुक्षुगुणसम्पन्नतालक्षणायां सत्यां निष्क्रम्य = प्रव्रज्यां गृहीत्वा ज्ञानवृद्धवचने = अवगततत्त्वतीर्थकर-गणधरादिवचने निरन्तरं = सर्वकालं चेतः समाधाय = प्रणिधाय = स्वास्थ्याऽभिमुखं कृत्वा, जिनप्रवचन एव सदाऽभियुक्त इति गर्भार्थः । व्यतिरेकतः समाधानोपायमाह- परित्यक्तं सद् विषयजम्बालं = भोगकर्दमं → अवि चए इत्थीसु मणं - (आचा.१/५/४/१६४) इति, → से मइमं परिन्नाय मा य हु लालं पच्चासी 6 (आचा.१।२।५।९४) इति च आचाराङ्गसूत्रपरिभावितहृदयतया नैव पुनराद्रियते = मनागप्याभोगतोऽनाभोगतश्च नैव सेवते मनसाऽपि पुरन्ध्रीणां = प्रायशः सकलाऽपायनिबन्धनभूतानां ललनानां अवशः = अनायत्तः सन्, तत्स्मरणस्याऽपि परिहारात् । अत एवोक्तं महाभारते → काम ! जानामि ते मूलं, सङ्कल्पात् किल जायसे। न त्वां सङ्कल्पयिष्यामि ततो मे न
હ ભિક્ષાવિંશિક પ્રક્રશ ૪ ૨૬ મી બત્રીસીમાં યોગનું માહાસ્ય ગ્રંથકારશ્રીએ જણાવ્યું. તે યોગમાયાભ્ય તો ભિક્ષુમાં = સાધુમાં સંભવી શકે છે. માટે પ્રસ્તુત ૨૭ મી બત્રીસીમાં ભિક્ષુનું સ્વરૂપ કહેવાય છે.
હું ભિક્ષુલક્ષણ હ ગાથાર્થ :- જે સંસારમાંથી નીકળીને ગુરુ ભગવંતે બોલેલા વચનમાં કાયમ મનનું પ્રણિધાન કરીને, સ્ત્રીને પરવશ થયા વિના, વમન કરેલ ભોગસુખને ફરીથી ચાખતા નથી તે ભિક્ષુ કહેવાય છે.(૨૭/૧)
હ વિષયસંગ છોડે તે સાધુ છું ટીકાર્ચ - દ્રવ્યઘર અને ભાવઘર છોડીને યોગ્યતા હોય તો જ્ઞાનવૃદ્ધ ગુરુ ભગવંતે બોલેલા વચનમાં निरंतर मनन प्रणिधान रीने दुटिल नेत्रवि।२ने ४२नारी स्त्रीमाने साधीन या विना, वमन (vomit) કરેલા વિષયસુખસ્વરૂપ કાદવને ફરીથી ચાખતા નથી તે ભિક્ષુ કહેવાય છે. (૨૭/૧)
१. हस्तादर्श '...मविशः' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रमेणि...' इत्यशुद्दः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org